SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 8190 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir A DESCRIPTIVE CATALOGUE OF केचिच्छब्दविचारबद्धरतयः केचिद्रसानन्दिनः केचिद्वेषपरम्पराप्रणयिनः केचिद्गुणग्राहिणः । के चिलक्षणतत्परास्सुमनसः केचित्कृतौ दूषकाः कोऽहं जातमहो न दैवबलतस्तेषां हि नूनं सताम् ॥ काव्यं करोम्यकविमार्गविदुत्तमानां सत्कृष्णभूषणमहं विदुषां मुदे हि । क्षारोदकाच्छतमखप्रमुखास्समुद्राज्जातं न रत्ननिचयं किमु दाघर ( धारय) न्ति ॥ (गद्यम् ) अनन्तरमनन्तान्तर। योपशान्तदक्षदक्षजागर्भनिर्भरपदारविन्दमतिमधुरोल्लसितार्थश्लेषालङ्कारशब्दाभियुक्त सरसकवित्व प्रदानप्रमोदमानभारतीचरणसरसिजमभिवन्द्य, समस्तकल्याणपरम्पराभिरामस्य रामस्यात्मभक्तजनपारिजातस्य भगबतश्श्रीमतस्स्मरणं च विधाय, सुधीवराशेषविद्याविद्धरासुरविद्वत्कवन्द्रिसन्नि धावतन्द्रमुपेत्य नम्रतां प्रशस्तप्रज्ञाभियुतः प्रस्तुतमुपस्तौति आभाति गोत्रममितोत्तमवैश्यधाम क्षोणीतले महति नार्केडमिल्लिनाम । क्षीरार्णवस्सकलदीपितरत्नशाली नित्यं यथा पृथुतरङ्गविराजमानः ॥ किश्च - समस्त विषयोल्लसत्सुजन चक्रवालस्तुतं पयोनिधितनूभवामवनमार्यसंम्पूजितम् । पवित्रममितं लसद्विमलकीर्तिकान्तायुतं निरस्तकलुषच्छटं पटुनराधिपाराधितम् ॥ (गद्यम् ) तत्र विचित्रितपवित्रगुणाभिरामो रामनामाभिनन्दित स्वान्तश्शान्तालयः कामयाख्यो वैश्यमुख्यो बभूव । देवाव निमरुद्योगः कीर्तिसम्पादनादरः । निजाश्रितसुरक्षाजो राजराजप्रपूजितः ॥ वाणिज्यविद्वरः श्रीमाञ्छ्रीमान्विद्वज्जनस्तुतः । सद्गुणालङ्कृतः प्राज्ञः पापनिर्मुक्तविग्रहः ॥ धर्मैकतत्परश्शान्तः कान्तान्ताकृतिभासुरः । धैर्य मेरुगिरिप्रायश्शिवपूजारतिस्सदा ॥ (गद्यम्) ततस्तस्मित्समस्तप्रशस्त लोक विस्तारित सद्गुणमणिगणाभियुक्ते मुक्तातपत्रीकृतपवित्रतरकीर्तिसम्पन्ने विराजमाने निजाश्रितार्तिनिरासनस्फूर्तिर्भागिर्तिलिङ्गाख्यस्तनूजस्समुदभूत् । महेन्द्रश्रीयुक्तः कविजनपरित्राणनपरः कलासङ्गः प्राज्ञस्सुरधरणिदेवार्चनरतः । दयासिन्धुर्बन्धुप्रकरविनुतः पुण्यचरितः प्रसन्नात्मा श्रीमत्सृजनगणसम्पूजितमतिः ॥ For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy