SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 8181 नन्दद्वन्दारकाणि क्षपितकुपितहत्ताटकानाटकानि क्रन्दत्सुन्दात्मजानि क्षणकृतबलवहालिकेलिक्षयाणि । क्षुब्धस्तब्धाब्धिकानि क्षतनिशिचरराटकण्ठकाण्डच्छटानि प्रत्यूहव्यूहभङ्गं दधतु रघुपतेः पत्रिणां नर्तनानि ॥ नत्वा पितुः पदयुगं रघुनाथसूरेः भक्तया प्रपद्य च पितामहमप्पयार्यम् । आत्रेयवेङ्कटकविर्नवपद्यगद्यैरुज्जृम्भते भणितुमुत्तररामवृत्तम् ॥ श्रुतिचक्षुर्योगिजनश्चक्षुःश्रुतिरपि न पण्डितो यत्र । तत्र हि रामचरित्रे कविर्भविष्यन् कथं न लज्जेऽहम् ॥ चित्ते रिक्तगुणापि तत्रभवतां वाणी ममाणीयसी श्रीमद्रामकथालुधारसपरिष्वङ्गादियं गाहते । संपर्क नवशर्कराभिरुदकं कूपोद्धृतं याति चेत् अस्वादिष्ठमपि स्वतो रसविदामास्वादनीयं न किम् ॥ यः काण्डान्निबबन्ध चम्पुविधया पञ्चापि भोजः कविः यो वा षष्ठमचष्ट लक्ष्मणकविस्ताभ्यामुभाभ्यामपि । कारुण्यादवशेषितं किल मम क्षेमाय रामायणे काण्डं सप्तममुद्गृणातु रसना चम्पुप्रबन्धात्मना ॥ आनन्दतुन्दिलमना दमनादरीणां सामन्तमौलिमणिशोणपदारविन्दः । नाके महेन्द्र इव भूसुतयैव साकं साकेतपुण्यनगरे विजहार रामः ॥ तदा पुनरुदारविक्रमन्यकृतशक्रादिक्रतुभुक्चक्राणां नक्राणामिव जलाशयैकसंसर्गिणां व्याघ्राणामिव निघणानां दोषाचराणां निश्शेषनिर्मूलनश्रवणपरिशोषितविषादसागराः सादरमगस्त्यवसिष्ठप्रेष्ठाः काष्ठासु चतसृषु विश्रुताः बहुश्रुतास्तपोधना रिपुजनप्रशमनस्वस्थकाकुत्स्थप्रतिनन्दनास्थया तदीयमास्थानमुपस्थातुमनसः निजाश्रमेभ्यो निश्चक्रमः । End: भगवानखिलजगदभिरामः निखिलगुणाभिरामः रामचन्द्रः चन्द्र इवोदयादि भद्रासनमधिरूढः भ्रातृभिरमात्यैः पौरवगैश्च उपासितः शतक्रतुरिवामरावती शशास सुचिरमयोध्यानगरीम् ॥ Colophon: .. इत्युत्तरचम्पुस्समाप्ता ॥ The scribe's nameअण्णास्वामिना लिखितम् ॥ For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy