SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 8179 THE SANSKRIT MANUSCRIPTS. श्रुतो हितोपदेशोऽयं पाटवं संस्कृतोक्तिषु । वाचा सर्वत्र वैचित्र्यं नीतिविद्यां ददाति च ॥ अजरामरवत् प्राज्ञो विद्यामर्थ च चिन्तयेत् । गृहीत इव केशेषु मृत्युना धर्ममाचरेत् ॥ सर्वद्रव्येषु विद्यव द्रव्यमाहुरनुत्तमम् । अहार्यत्वादनर्घत्वादक्षयत्वाच्च सर्वदा ॥ अत्रान्तरे विष्णुशर्मा नाम महापण्डितः सकलशास्त्रतत्त्वज्ञो बृहस्पतिरिवाबवीत् । देव महाकुलसंभूता एते राजपुत्रा मया नीतिं ग्राहयितुं शक्यन्ते । राजपुत्रैरुक्तम्-आर्य कथ्यताम् । विष्णुशर्मोवाच-शृणुत संप्रति मित्रलाभः प्रस्तूयते । यस्यायमाद्यः श्लोकः असाधना वित्तहीना बुद्धिमन्तस्सुहृत्तमाः । साधयन्त्याशु कार्याणि काककूर्ममृगाखुवत् ॥ राजपुत्रा ऊचुः-कथमेतत् । विष्णुशर्मा कथयति । End: राजपुत्रा ऊचुः--आये तव प्रसादात् सकलराज्यव्ययहाराङ्गं ज्ञातम् । ततस्सुखिनो भूता वयम् ।। विष्णुशर्मोवाच-यद्यप्येवं । तथापि ।अपरमपीदमस्तु सन्धिस्सर्वमहीभुजां विजयिनामस्तु प्रमोदस्सदा सन्तस्सन्तु निरापदस्सुकृतिनां कीर्तिश्चिरं वर्धताम् । नीतिवारविलासिनीव सततं वक्षःस्थले संस्थिता वक्रं चुम्बतु मन्त्रिणामहरहर्भूयान्महानुत्सवः ॥ Colophon: इति हितोपदेशे नीतिशास्त्रे सन्धिर्नाम चतुर्थः कथासङ्ग्रहः ॥ For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy