SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 8173 Beginning: सुधर्मायां पुरा राजन् महेन्द्रो देवतागणैः । इमं प्रश्नं तदापृच्छन्नारदो देवसन्निधौ । परतत्त्वार्थविल्लोके तदा तत्प्रतिबोधकः । अस्ति चेत् परमं गुह्यं यथा वक्तुमिहार्हसि ॥ नारदः-- शुक एवोभयं वेत्ति नान्यं वेद्मि शचीपते । स्वयं तत्वार्थविद्वक्ता परस्मै बोधितुं क्षमः ॥ तद्वचस्तत्सभामध्ये वह्निश्श्रुत्वा तदाबवीत् । स्वयं वेत्ति विरागी च न वक्ता परबोधकः ॥ सर्ववित्तच्वविल्लोके न परेषां विचक्षणः । संवादस्सुमहानासीदुभयोर्देवसन्निधौ ॥ तिरोहिते देवगणे सेन्द्रे विस्मयर, गते । वह्निभूमण्डले राजा जातः क्षत्रकुलोत्तमे ॥ नारदस्सर्वमाचष्टे शुकायामिततेजसे । तत्प्रबोधार्थमाचष्टे शुकः पादजमन्दिरे ।। शुको भूत्वा परीक्षार्थ स्वर्णपञ्जरमाविशत् । शृणु राजन् कथामेतां पवित्रां पापनाशिनीम् ।। पुरातनी पुराणाक्तां शुकोक्तां वह्निभूभुजे । अस्ति भूमण्डले राजा सर्वशास्त्रार्थतत्त्ववित् ॥ सर्वज्ञः कुशलो दक्षो नीतिशास्त्रार्थपारगः । सदा विद्वज्जनासेवी यायजूको महामतिः ॥ एवं पालयतः पृथ्वीं तस्यासीद्धृत्यपुङ्गवः । स्वामिकार्यहितासक्तः सभार्यः खडमुद्वहन् । प्रत्यहं राजसन्मानी युद्धे चाप्यनिवर्तितः ।। भृत्यधर्मरतो नित्यं राजसेवापरायणः ॥ * शुकस्तिष्ठति तद्गुहे तेन भृत्येन पोषितः । अतीतानागतस्सम्यग्वेत्ति ज्ञानप्रभावतः ॥ For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy