SearchBrowseAboutContactDonate
Page Preview
Page 480
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 8588 A DESCRIPTIVE CATALOGUE OF कृतानां वेदभाष्याणां संशयस्य निवर्तने । विद्याशङ्करयोगीन्द्र देह्याज्ञां मम देशिक || काशी प्रति गमिष्यामि प्रसादं कुरु मे प्रभो । वसन्ति मुनयस्तत्र संशोध्य गमनाय मे ॥ पीठेष(ष्व)ष्टसु सङ्ख्या च नगरी विजयाह्वया । आयामविस्तरतया योजनद्वयसम्मिता ॥ मतङ्ग इति शैलेन्द्रो राजते सर्वकामदः । सा पुरी कालदोषेण क्षयं प्राप्तास्ति साम्प्रतम् ॥ संशोध्य सर्वतन्त्राणि भूयोऽपि नगरीमिमाम् । सम्यनिर्माय चैकत्र अन्नदानं प्रकल्प्य च ॥ इति श्रुत्वा वचस्तस्य मतङ्गेऽत्र स्थिते मयि । तस्मिन् काले तु सम्प्राप्तौ नाना सायणमायणौ । मां प्रसाद्य महाभक्तया सन्तानं तावयाचताम् ॥ एतस्मिन्नन्तरे काले कुरुवंशप्रसूतजम् । कोशागारप्रतीहारौ वीररुद्रमहीपतेः । सुरत्राणेन निर्जित्य वीररुद्रे धृते तदा । रामनाथं सिषेवाते राजानं कोशपालने ॥ तस्मिन्नपि हते पश्चात् भ्रातरौ तु यशस्विनौ । ज्येष्ठो हरिहरो नाम कनिष्ठो बुकसंज्ञकः ।। सुरत्राणभटैनीतैवीरै रक्षणलक्षितौ । तुङ्गभद्रानदीतीरे हस्तिकोणाहुये पुरा ॥ निवसन्तौ कदाचित्तौ मृगयागमनोत्सुकौ । तुङ्गभद्रानदीतीरदक्षिणे दिग्विभागके ॥ विरूपाक्षस्य भक्तास्ते त्रयोदश नरेश्वराः । हरिहरो बुलधरणीनाथविक्रमसंज्ञकाः ॥ For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy