SearchBrowseAboutContactDonate
Page Preview
Page 423
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 8531 Beginning: पद्मे ! त्वन्नयने स्मरामि सततं भावो भवत्कुन्तले नीले! मुह्यति किं करोमि महि! तैः क्रीतोऽस्मि ते विभ्रमैः । इत्युत्स्वप्नवचोऽनुभाष्य सरुषा निर्भसितो राधया कृष्णस्तत्परमेव तद्व्यपदिशन् क्रीडाविटः पातु नः ॥ ____ (नान्द्यन्ते) - सूत्रधारः श्रीरङ्गराजस्य चैत्रोत्सवयात्रायामात्मविद्याविदग्धैः अनवरतनिरवद्यभरतविद्यावनोदैरार्यमित्रैरादिष्टोऽस्मि । यदत्र-- " अस्ति खलु भगवद्रामानुजमुनेः पूर्वाश्रमभागिनेय(:)श्रीवत्सकुलचूडामणिः, अखिलपरदर्शनमदकर्शनस्सुदर्शनो नाम । सत्कुर्वता संसदि शेषवर्गाननन्यलभ्यैरखिलैः स्वचिह्नः । श्रीभाष्यसिंहासनमात्मनीनं यस्मै च दत्तं यतिशेखरेण ॥ तस्य वेदान्तकूटस्थः पौत्रोऽभूद्वरदो गुरुः । श्रुतप्रकाशिकाद्याश्च ग्रन्था यच्छिष्यसम्पदः । तस्य पञ्चमः प्रपञ्चविदितवैदुप्यनिधिः काञ्चीपुरीवास्तव्य श्रीघटिकाशतकसुदर्शनाचार्यसूनुः श्रीवेदान्ताचार्यरामानुजदर्शनस्थापनाचार्ययोः प्रसादभूमिवरदाचार्यों नाम कविः । तद्विरचितं वेदान्तविलासं नाम नाटकमस्माकं श्रोत्रपदवीमानन्दयति । तेन नेत्रपदवीमप्यानन्दय” इति ।। पारिपार्श्वकः-(विचिन्त्य)-तदभिनेतव्यमित्युक्तम् । भवतु नाम । किं नाम नाटकस्य ? सूत्र--(विमृश्य) चित्रकूटतटे रामश्चित्रसानौ चकार यत् ।। सीताललाटे तन्नाम स्वरसंसिद्धमेव तत् ॥ .न-(विचार्य, सहर्षम् ) ललाटे कृतं हरितालतिलकमेव । तस्य स्वरैर्यतिराजविजयमिति सिद्धमेव तन्नाम । End: तथापीदमस्तु (भरतवाक्यम)-- काले वर्षतु वासवः क्षितिभुजो रक्षन्तु सम्यक महीं सर्वे सन्तु निरामायाश्च कृतिनः सत्वोचराः प्राणिनः । For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy