SearchBrowseAboutContactDonate
Page Preview
Page 421
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 8529 भगवत्प्रसादेन पुनर्गुणान्तरयोगित्वमपि भवतु । तथा च काव्यलक्षणेसमस्तमिहापि स्यात्तत्तत्कर्तृतया च कीर्तिविवर्तलाभः प्रीतिलाभश्च ‘स्यादिति । तदुक्तं सरस्वतीकण्ठाभरणे " निर्दोष गुणवत्काव्यमलङ्कारैरलङ्कतम् । रसान्वितं कविः कुर्वन्कीर्तिं प्रीतिं च विन्दति ॥" कतीह नाटकाम्बुधौ स्फुरन्ति नोज्वला रसाः । मदीयबुद्धिरल्पिका क वेद तानशेषतः ॥ (मा)नादरं मम कृतौ नियतं तनुध्वमत्राधुना(तन)तया गुणदोषविज्ञाः । ग्राह्यं शिशोरपि सुभाषितमित्थमात्थ यूयं ततोऽपि मम टिप्पणमाद्रियध्वम् ।। लब्धं दुर्लभशासनं सुरगणग्रामोऽभिरामो गुणै. विद्यावंशविभूषणे अपि शुभे छत्रे उभे धारिते । येनायं समभूविजातितिलकश्चण्डेश्वरः पण्डितो मीमांसैकरहस्यवश्यहृदयो दातावदाताशयः ॥ प्रासूतासावहितनगरीनागरीगीतकीर्ति विप्रे क्षिप्रं गुणदमधिकं वेदपूर्व धरं तम् । कैवर्तानामलभत नृपाच्छासनं सोऽयमुच्चै रापत् पुत्रं गुणमयतनुं रामपूर्व धरं तम् ॥ सोऽयं थुकामनगरे पदमाप श्व(शु)द्धे मीमांसको विमलकीर्तिपवित्रमूर्तिः । पुत्रं गदाधरमवाप गुणैरगाधं सत्तान्त्रिकं गुणिगणप्रथिताभिमानम् ॥ असूत विद्याधरमेष धीरं गुणैरनूनं सुकृताधिवासम् । तं रत्नपूर्व धरमाप पुत्रं सोऽपि प्रसिद्धं गुणिनां गुणेन । दमयन्त्यामयं धीरो लेभे सुतमरिन्दमम् । श्रीजगडरनामानमनर्घगुणशालिनम् ॥ विद्याच्छत्रं कुलच्छत्रं धारितं येन धीमताम् । जगद्धरः सुक(र)गणे सोऽपि नैयायिकः कविः ॥ For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy