SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 8473 Beginning : त्रैलोक्यं रङ्गभूमिः सकलगुणवृता नायिका शैलपुत्री व्योमैवान्तर्वितानं निजवसनपदं वाद्यदण्डं कपालम् । आनन्दप्राप्तिमुच्चैः कलिकलुषहतेर्यस्य लाभो जनानां स्थाणुर्विश्वकदृश्वा स कपटनटनानर्तको वः पुनातु ॥ यद्यपि ते ते गुणिता येषामग्रे न मे [व]वचनशक्तिः । तदपि च तदनुग्रहभूभवितुं वाञ्छा ममास्तीह ॥ मित्रवटेंश्वरगुरुतोऽधीतं यत्किमपि चेतसा कलितम् । तल्लेशतो विवेके मय(द्य)नः शुद्धबुद्धिसंसिद्ध्यै ।। नत्वा शङ्करचरणं स्तुत्वा साधूंस्तु वी (विदि)तमाहात्म्यान् । कुरुते ग्रहेश्वराख्यो मुद्राया दीपिका यत्नात् ॥ इह खलु ग्रन्थारम्भे मङ्गलाचरणेन समाप्तिमुद्दिश्य नाटकग्रन्थारम्भे विशिष्टसकलनाटकार्थनिर्वचनं सङ्क्षपेण नान्दीश्लोक एव यदि भवति विशाखदत्तः प्रथमत एव तत्सर्वमभिदधाति स्म । अथ मूलश्लोकः धन्या केयं स्थिता ते शिरसि शशिकला किंनु नामैतदस्या नामैवास्यास्तदेतत्परिचितमपि ते विस्मृतं कस्य हेतोः । नारी पृच्छामि नेन्दं कथयतु विजया न प्रमाणं यदीन्दुः देव्या निह्रोतुमिच्छोरिति सुरसरितं शाठ्यमव्याद्विभोर्वः ॥ टीका-विभोर्महादेवस्य शाठ्यं शठस्य भावः शाठ्यं वञ्चना । तदनुकूलवचनं वा । वो युष्मान् अव्यात्, त्रायताम् । अव रक्षणे आशिषि लिङ् । End: देशे श्रीतीरभुक्तौ परिसरसहितश्चक्रपाणिर्गुणान्यः श्रीवत्सस्तत्सुतोऽभून्नयविनयम(हा)तन्त्रविद्यः कवीन्द्रः । नृ(त)त्पुत्रः ख्यातकीर्तिः कविवरगणितः श्रीजयादित्यवीरः श्रीदेवस्तत्सुतोऽभूत्तदुवि(चि)ततनयः पण्डितो वा(रामशर्मा ।। सिद्धेश्वरस्तत्तनया बभूव द्विजेन्द्रवर्गे गणितप्रतिष्ठः । तत्सूनुरानमशिरा गुरुभ्यो ग्रहेश्वरः सन्नयमार्गसेवी ।। 632-A For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy