SearchBrowseAboutContactDonate
Page Preview
Page 359
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THB SANSKRIT MANUSCRIPTS. 8467 Beginning: धन्या केय स्थिता ते शिरसि शशिकला किंनु नामैतदस्याः नामैवास्यास्तदेतत्परिचितमपि ते विस्मृतं कस्य हेतोः । नारी पृच्छामि नेन्दु कथयतु विजया न प्रमाणं यदीन्दु देव्या निहोतुमिच्छोरिति सुरसरितं शाठ्यमव्याद्विभोर्वः ॥ अपिचपादस्याविर्भवन्तीमवनतिमवने रक्षतः स्वैरपातैः सङ्कोचेनैव दोष्णां मुहुरभिनयतः सर्वलोकातिगानाम् । दृष्टिं लक्ष्येषु सोग्रज्वलनकणमुचं बनतो दाहभीतेरित्याधारानुबोधात्रिपुरविजयिनः पातु वो दुःखनृत्तम् ॥ (नान्द्यन्ते) सूत्रधारः–अलमतिप्रसंगेन । आज्ञापितोऽस्मि परिषदा यथाद्य त्वया सामन्तवटेश्वरदत्तपौत्रस्य महाराजपदभाक्पृथुसूनोः कवेविशाखदत्तस्य कतिरभिवनं मुद्राराक्षसं नाम नाटकं नाटयितव्यमिति । End: भो राजन् चन्द्रगुप्त भो अमात्य राक्षस, किं भूयः प्रियमुपकरोमि । राजा- किमतः परं प्रियमस्ति । राक्षसेन समं मैत्री राज्ये चारोपिता वयम् । नन्दाश्चोन्मूलिताः सर्वे किं कर्तव्तमतः प्रियम् ॥ राक्ष-तथापीदमस्तु (भरतवाक्यम् ) - वाराहीमात्मयोनेस्तनुमवनविधावास्थितस्यागुरूणां(नुरूपां) यस्य प्राग्दन्तकोर्टि प्रलयपरिगता शिश्रिये भूतधात्री । म्लेच्छरुहेज्यमाना भुजयुगमधुना संश्रिता राजमूर्तेः स श्रीमद्वन्धुभृत्यश्विरमवतु महीं पार्थिवश्चन्द्रगुप्तः ॥ इति निष्क्रान्ताः सर्वे ॥ Colophon: सप्तमोऽङ्कः ॥ For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy