SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 8302 of Subrahmanya is brought from a temple situated in a neighbouring village called Udayanapuram and placed in the shrine at Vaikkam, where the festival is celebrated in honour of both the Gods Śiva and Subrahmanya. The name of the author is not given. Beginning: A DESCRIPTIVE CATALOGUE OF शैलेन्द्रकन्याकुचकुम्भशुम्भत्कस्तूरिकाकर्दमपिच्छिलानि । व्याघ्रालयस्थानि भवन्तु भूत्यै तत्त्वावबोधद्रुमपल्लवानि ॥ वैदेहीपीन तुङ्गस्तन भरयुगलीगाढगाढाङ्कपालीकेलीसम्मर्दमिश्रीकृत घुसृणलसच्चा रुदोरन्तरालः । कौसल्याभाग्यसीमा वलमथनमणिश्यामलः कोमलाङ्गः कश्चित्सश्चिन्मधूलीरसनवलहरीस्यन्दगन्धस्समिन्धे ॥ Acharya Shri Kailassagarsuri Gyanmandir क्कामी वयं सरससूक्तिरसानभिज्ञाः कासौ पुनः पुरहरस्य महोत्सवोऽपि । नूनन्तदत्र परिहास्यजनेषु लब्धुं मूर्धाभिषेकमधुना परमुद्धतास्मः ॥ अस्ति प्रशस्ततरनिस्तुलकीर्तिजालज्योत्स्नाकरम्बितसमस्तदिगन्तरालः । विद्याधरः सरसकाव्यरसप्रवीणसङ्गीतदेशिक इति प्रथितस्त्रिलोक्याम् || स कदाचित् शृङ्गाररसतरङ्गिण्या सङ्गीतसुधारसपारावारपारीणया सकलकलाप्रवीणया वीणया विलसितकरपल्लवया सह वल्लभया पुरन्दरपुरं प्रति जगाम । * भगवन् इतस्ततः स्वच्छन्दमेव सञ्चरता मया विविधानि सुबहून च दृष्टानि श्रुतानि चाद्भुतानि । किन्तु सनकसनन्दनादिमहर्षिभिः सह संवदतो नारदस्य मुखात् यं व्याघ्रग्रामनाथस्य भवानीवल्लभस्य भगवतः अष्टमीम होत्सवमश्रौषम् । तस्मादन्यन्न किञ्चिदद्भुततमं पश्यामि । स मूर्धा किमु नो येन व्याघ्रग्रामेश्वरो नतः । स पुमान् किन्नु यस्तस्य दृष्टवानष्टमीमहम् || अस्त्युत्तमः केरल भूमिभागे क्षेत्रं महाव्याघ्रपुराभिधानम् । जुष्टं विशिष्टैरनिशं प्रशान्तैरसङ्घैरसङ्ख्यैरवनी बुधानाम् ॥ 學 कदाचिदस्मिन् क्षेत्रे तुलामतिक्रम्य वर्तमाने भगवति भानुमालिनि शुक्कद्वादश्यां तिथावतिक्रान्ते मध्याह्ने दिवसे क्रमेण प्रतीचीं दिशमवतरति । For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy