SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 8286 A DESCRIPTIVE CATALOGUE OF सर्वो यस्य वरः करामलकतामाप प्रसादाद्दरोर्वेदान्तार्थचयो मनोमधुकरप्राभातिकाम्भोरुहम् । चेञ्जीनाम्नि पुरे चकास्ति मधुभित्पादाम्बुजाल्यायितस्वान्तो वेङ्कटवीरराघव इति ख्यातस्स विद्वन्मणिः ॥ गुरवस्तु राघवार्याः श्रुतिशिक्षातश्शास्त्रशिक्षयानघया । यस्य स तस्मात्समजनि कृष्णेशादुभयथा बुधप्रवरात् ॥ स च विद्याहनुमतो लब्धसाहित्यपद्धतिः । प्रबन्धं विबुधानन्दं विधत्ते वेङ्कटायः ॥ . सूक्तिप्रपञ्चे मम कर्कशेऽपि किञ्चित्प्रयासेन हि निर्विलम्बम् । बुधै रसस्स्यान्मधुरोऽवगम्यः पुण्ड्रेक्षुदण्डेषु महान् यथैव ॥ शुकनिगद्यमानं भागवतविविधविभवप्रपञ्चं नितरामपि संभावयन्ति किल भगवचरणारविन्दलममनसो विबुधाः । त एते रसज्ञास्तादृशीं कृतिं कथं नाम मनसा वा परित्यक्तुमुत्सहेरन् । विबुधास्तु समाकर्ण्य विबुधानन्दमाख्यया । प्रबन्धं मम साद्यन्तं नन्दन्तु कृपया चिरम् । अत्र तावदादौ प्रबन्धे वैरोचनिसनाथीकृतायाः ककुभो वैश्रवणपालितामाशामायान्तावन्तरिक्षचरौ प्रचुरवामाधुर्यभाजौ कीरवयों परस्परानुलापेन यामेव प्रकाशयामासतुः कथामहं तां प्रबन्धरूपेण रचयितुमारब्धवाननुग्राह्यो वश्यवाभिर्विचक्षणैः । * * * लीलाविलोलानेकबालामालासन्तोषितजनजाला समन्तादभ्युल्लसद्राजवधूकेलि. शैला निरर्घगुणशालिनी कमलिनी नाम राजधानी । तत्र च निखिलमहापुरुषलक्षणसमन्वितः समानन्दितसमस्तसामन्तसेवितः । सरिध्वज इव मिथिलायाः अभिमतो नितरामचलाया अस्ति राजा कन्दर्पो नाम । End: तस्मादेहि तावत् । अस्मत्समागमसमधितहषभाजोः पद्मावतीजनविकथितदैवयोश्च । अत्रैव साधुरचिते दिवसे मुहूर्ते मित्रतयोस्स्व उदयादतिमोदमानौ ।। इत निष्क्रान्तौ । For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy