________________
Shri Mahavir Jain Aradhana Kendra
THE SANSKRIT MANUSCRIPTS.
www.kobatirth.org
यदनुग्रहकतकान्मे मानससलिलं बभूव मलिनमपि । समलां (विमलं) तादृशतपसं मीनाक्ष्यार्याख्यदेशिकं वन्दे || श्रीवीरराघवविपश्चितमत्रियोगिसङ्काशमत्र तपसा जनकं नमामि । शीलेन मातरमहं शुचिनानसूयादेव्यास्समामपि भजे हृदि कुप्पमुख्यम् (माख्याम्) ॥
अतिमनोहरमाश्रमं सुधर्माश्रमं नाम ।
*
कवीनुद्दामवचसः प्राचेतसपुरोगमान् । वन्दे सुरससाहित्य सम्प्रदायप्रवर्तकान् ॥ अज्ञातशास्त्रतत्त्वार्थान्मूढान्पण्डितमानिनः । दुष्कवीन् न स्मराम्येष ग्रन्थादौ मङ्गलाप्तये || विद्वदानन्दिनी भूयात्तथा मम सरस्वती । लोकसन्तोषजननी यथा स्याद् बालभारती || दत्तात्रेयोदयकथामधिकृत्य गरीयसीम् ।
दत्तात्रेयकविश्व के चम्पुकाव्यमनुत्तमम् ॥
अस्ति किल निखिलमुनिकुलनिरन्तरनिवासरुचिरे परमपावनपयः पूरभरितगोदावरी (सरि) परिसरे
*
प्रथमोल्लासः ॥
617
Acharya Shri Kailassagarsuri Gyanmandir
तदधिवसति तपोनिधिर्विश्वसर्गोत्सुक हिरण्यगर्भमानसपयः पारावारसुधाकरः
*
छाययेव चित्रभानुसेवा जागरूकया जायया सह भगवात् ब्रह्मर्षिरत्रिर्नाम | निजधर्मरतस्तत्र सत्यात्रिरनसूयया ।
तपस्तेजोज्वलन्मूर्तिर्न्यवसत्सुखितश्विरम् ॥
*
तनयसंभवलालससूचकं वचनमात्मवधूसमुदीरितम् । झटिति सोऽपि निशम्य कुतूहलात्तमधिगन्तुमियेष मनोरथम् ॥
8281
德
For Private and Personal Use Only
Colophon:
इति श्रीमदात्रयगोत्रपयः पारावारसुधाकरवीरराघव विपश्चिरतनयदत्तात्रेय
गुरुचरणकमलभृङ्गायमाणान्तरङ्गदत्तात्रेयकविविरचिते
श्रीमद्दत्तात्रेयचम्पु काव्ये