SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 7765 क्षुद्रव्याख्याविषार्तानां श्रीहर्षकविदुश्चिताम् । उज्जीवनाय जीवातुर्जीयादेष मया कृतः ।। इहान्वयमुवेनैव सर्वं व्याख्यायते मया । नामूलं लिख्यते किचिन्नानपेक्षितमुच्यते । अथ तत्रभवान् श्रीहर्षकविः “काव्यं यशसेऽर्थकते व्यवहारविदे शिवेतरक्षतये । सद्यः परनिर्वृतये कान्लामंपिपतयोपदेशयुजे” इत्यालङ्कारिकवचनप्रामाण्यात काव्यस्यानेक श्रेयस्साधन तां काव्यालापांश्च वर्जयेत् ' इति निषेधस्यासत्काव्यविषयतां च पश्यन नैषधाख्यं महाकाव्यं चिकीर्षुः चिकीर्षिताविनपरिसमाप्तेः सम्प्रदायाविच्छे इलक्षणफल साधनत्वात् 'आशीर्नमस्क्रिया वस्तुनिर्देशो वापि तन्मुवम्' इत्याशीराद्यन्यतनस्य प्रबन्धमुरवलक्षणत्वाच्च नायकस्य राज्ञो नलस्य कुलपराक्रमभूतिलक्षणं परममङ्गलं वस्तु निर्दिशति निपीय यस्य ( . . . . . . . ) महोज्वलः ॥ निपीयेति । यस्य क्षितिं रक्षति क्षितिरक्षिणः मापालस्य नलाख्यस्य चक्रवर्तिनः । कथाः उपाख्यानानि । निपीय नितरामास्वाद्य । पिव(पीङ स्तमासे क्त्वो ल्यबादेशः । न ल्यपीति पिवतरित्य रीत्व प्रतिषेधात् । बुधास्त त्वज्ञाः सुगश्च । " ज्ञातृचादिसुरा बुधाः ” इति क्षीरस्वामी । सुधामपि तथा यथैतत्कयेत्यर्थः । नाद्रियन्ते न रोवन इत्यर्थः । . . . . . . . . . . . त्कथा इति भावः । सितच्छत्रं कृतं सितच्छात्रतम् । श्वेतानपत्री कृतमित्यर्थः; तत्करोतीति ण्यन्तात्कर्मणि क्तः; तत्कीर्तिमण्डलं यस्य सः । महसां तेजसां राशिः ; रविरिव तेजस्वीत्यर्थः । महैरुत्सवैरुज्ज्वलः प्रकाशमानः । नित्यमहोत्सवशाली इत्यर्थः । “मह उद्धव उत्सवः” इत्यमरः । एतेन समृद्धिमद्वस्तुवर्गनमुदात्तालङ्कारो व्यज्यते । लो नलाख्यः । स राजा । आसीदस्ति स्म । अत्र सुधाया अनादरसम्बन्धेऽपि तत्सम्बन्धोक्तेरतिशयोक्तिः ; महसां राशिरिति तेजस्तद्वतारभेदोक्तेभेदेऽभेदरूपातिशयोक्तिः; कीर्तिमण्डले सितच्छत्रत्वनिरूपणाद्रूपकालङ्कारः ; इति त्रयाणां संसृष्टिः । अस्मिन् सर्गे वंशस्थवृत्तम् । “ जतौ तु वंशस्थमुदीरितं जरौ” इति लक्षणात् ।। For Private and Personal Use Only
SR No.020205
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 20
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages454
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy