________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
8086
A DESCRIPTIVE CATALOGUE OF
Beginning:
दिगन्ते श्रूयन्ते मदमलिनगण्डाः करटिनः करिण्यः कारुण्यास्पदमसमशीलाः खलु मृगाः । इदानी लोकेऽस्मिन्ननुपमशिखानां पुनरयं
नखानां पाण्डित्यं प्रकटयतु कस्मिन् मृगपतिः ॥ १ ॥ (व्याख्या) दिगन्तेत्यादि । मदमलिनगण्डाः करटिनः दिगन्ते श्रूयन्ते । मदेन मलिनाः मदमलिनाः गण्डाः (येषां ते) करटिनः दिगन्ते श्रूयन्ते । दिशाम् अन्तः दिगन्तः ; तस्मिन् दिगन्ते ; श्रूयन्ते न तु दृश्यन्ते । तथा । करिण्यः कारुण्यास्पदम् । करिण्यो नाम हस्तिन्यः । कारुण्यास्पदं कृपापात्रम् ; भवन्तीति शेषः । तथा मृगाः असमशीलाः । मृगाः हरिणाः । न समम् असमम् असमं शीलं येषां ते असमशीलाः ; विषमस्वभावा इत्यर्थः । खल्विति हेत्वर्थे । इदानीं नाम अस्मिन् काले अस्मिन् लोके । मृगपतिः सिंहः । अनुपमशिखानां न विद्यते उपमा यासां ता अनुपमाः शिखा येषां ते अनुपमशिखाः तेषामनुपमशिखानाम् ; अतुलिताग्राणामित्यर्थः । नखानां पाण्डित्यं महिमानम् ; विलक्षणकौशिल्य(शल)मिति यावत् । कस्मिन् प्रकटयतु प्रकटीकरोतु ; अपि तु प्रतियोग्यभावान्न कस्मिन्नपीत्यर्थः। End:
मद्वाणि मा कुरु विषादमनादरेण मात्सर्यमग्नमनसां सहसा खलानाम् । काव्यारविन्दमकरन्दमधुव्रतानामास्येषु धास्यसितमां कियतो विलासान् ॥
खेदे जीवन्तोऽपि मृतकाः मृतका एव येषां जगन्नाथफणितिः काव्यरूप. जगन्नाथोक्तिः आनन्दं प्रमोदं न जनयति नोत्पादयतीत्यर्थः ॥
स्पष्टोऽर्थः ॥ Colophon:
इति श्रीमत्पण्डितराजजगन्नाथविरचिते भामिनीविलासे शान्तश्चतुर्थो विलास सम्पूर्णः ॥
No. 12112. भामिनीविलासः,
BHĀMINIVILĀSAH. Pages, 28. Lines, 7 on a page.
Begins on fol. la of the MS. described under No. 12037.
For Private and Personal Use Only