________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
8066
A DESCRIPTIVE CATALOGUE 0 पाणी धृतशुभवीणां नीरजचरणां सुनीलसद्वेणीम् । एणीनयनसुरमणीं वाणीमनिशं नमामि कल्याणीम् ॥ मुनि स्निग्धाम्बुदाभासं वेदावासमकल्मषम् । वेदव्यास सरस्वत्या वास व्यासं नमाम्यहम् ॥ कालिदासभवभूतिमयूरान् बाणहर्षजयदेवसुबन्धून् । चित्तपादकविवर्यसमूहान् नव्यकाव्यरचनाय नमामि ॥ मुक्कण्टिक्षोणिपेन प्रकटितयशसा चारुदत्ता स्फुरन्ती सम्यग्विद्याधराढ्या कविबुधसुमनोराजगुर्वादियुक्ता । प्रख्याता भूवि(मि)लोके प्रणवसुरसरित्सन्निधौ राजमाना श्रीमत्काकावनीजावनिविबुधपुरी राजते स्वःपुरीव ॥ शिङ्गाम्बागर्भसम्भूतः शिङ्गनार्यतनूभवः । उमापतेः सदा दासः (पो)तयार्यो विजृम्भते ॥ शाकाब्दे वसुहस्तिवह्निशशियुक्श्रीपार्थिवे वत्सरे वैशाखे सितपूर्णिमाख्यसुदिने वारे गुरोः श्रीमतः । काकम्रानिपुरीनिवाससुजनो वाधूलवंशोद्भवः श्रीमान् पोतयनामको व्यरचयत्नासङ्गरत्नावलिम् ॥ प्रसङ्गरत्नावलिसंज्ञितं वरं प्रासङ्गिकानां खलु शारदामयम् । सारं पुराणस्मृतिकाव्यसवे[श ग्रन्थस्थमादाय निगद्यते मया । अनन्तशास्त्राण्यधिकाश्च विद्या अल्पश्च कालो बहवश्व विघ्नाः ।
यत्सारभूतं तदुपासनीयं हंसो यथा क्षीरमिवाम्बुमध्ये ।। अथैतद्दन्थे नानाग्रन्थसारविशेषवाग्विधिनानारत्तयुक्तपद्धतीनां नाम विभज्योच्यते
Contains the following Paddbatis :-- १. सुभाषितप्रशंसापद्धतिः. ७ संसारसारपद्धतिः. २. आशीर्वादपद्धतिः.
८. चतुर्युगप्रभावपद्धतिः. ३. दशावतारप्रशंसापद्धतिः. ९. विषप्रशंसापद्धतिः. ४. ईश्वरस्तुतिपद्धतिः.
१०. विद्याप्रशंसापद्धतिः. ५. काशीप्रशंसापद्धतिः.
११. कविताप्रशंसापद्धतिः ६. उमामहेश्वरसंवादपद्धतिः, १२. मित्रलक्षणपद्धतिः.
For Private and Personal Use Only