SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 8022 A DESCRIPTIVE CATALOGUE OF महिषान्योक्तिः. पिशाचान्योक्तिः. तटाकान्योक्तिः. शरदन्योक्तिः. चकोरान्योक्तिः, पिप्पलान्योक्तिः. Beginning: वस्तु तहस्तुतः सहजगदाभाति यत्सतः । निस्तुलस्वस्तिलाभाय हस्तिमस्तकमस्तु नः ॥ धन्वी धुन्वीत कोऽप्यंहः संहारे यस्य वैरिणाम् । चक्री बभूव चापोऽपि तद्गुणोऽपि शरोऽपि च ॥ भिन्ते यत्तनुकान्तिरन्तरुदितध्वान्तव्रजं योगिनां यत्सेवा निगमागमाब्धितरणिः सा भारती मनिराम् । क्रव्यादक्रथनोत्कदिक्करिघटाकण्ठावलीचङ्कणत्घण्टाजालघणवणारवजयोत्कण्ठामकुण्ठां क्रियात् ॥ आर्द्रागःकुपितां करोद्धतकशामासेदुषीमग्रतः प्रेक्ष्य स्वां जननी पिधाय नयने भीत्या कराभ्यां द्रुतम् । पश्यन्नमुलिरन्ध्रतस्तव सुतो नात्रेति घुष्यन् भृशं घ्रातो मूर्युपगूह्य गाढमनया कृष्णः स पुष्णातु नः ॥ अहोबलसुधीगर्भसुधाम्बुधिसुधाकरः । कविर्लक्ष्मीनृसिंहार्यः करोति कविकौमुदीम् ॥ अथ कोकिलान्योक्तयः कोऽयमकारणकरुणः कोकिल(खग)नायको मम श्रवसि । पञ्चमरुतगलदमृतैस्सिञ्चति कटुफेरवारवज्वलिते ॥ कल्याणं भवतेऽस्तु कोकिलकुलाकल्पाय येन श्रुति क्रूरकोष्टरुतार्दितं (कलरुतैः) विश्वं समाश्वासितम् । अत्यन्ताभ्यसनाभ्युदित्वरबृहन्नादावबोधोल्लसच्छब्दब्रह्मरसानुभूतिजनितानन्दौघनिष्यन्दिभिः ॥ भिक्षां लिप्सुः प्रमादाच्छबरगृहमिदं हन्त यातोऽसि भिक्षो साक्षान्मृत्युस्वरूपः प्रविकटवदनः श्वा पुरोऽभ्येति गजेन । भिक्षालक्षादतीवोत्तम इति शबरं प्रार्थय श्वोपरोधं रक्षन्नद्याण्डकोशं यदि सदनमियाः सर्वलाभस्तवैषः ॥ End: For Private and Personal Use Only
SR No.020205
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 20
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages454
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy