________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
THE SANSKRIT MANUSCRIPTS.
7981
Same work as the above, but with certain additional stanzas which are given below. The genealogy of Vēmabhūpāla is herein given thus:
Mācabhūpa, elder brother of Vēmabbūpāla
Reddipūta
Kāmațindra
Nagabhupa
Vāmabhūpa
Macabhūpa.
Beginning:
अन्योन्यमेलनवशात् प्रथमं प्रवृद्धं मध्ये मनाग्व्यवहितं च कुतोऽपि हेतोः । प्राप्तं दशामथ मनोरथभावयोग्यां पायाचिरं रतिमनोभवयोः सुखं वः ॥ आसीच्चतुर्थान्वयचक्रवर्ती वेमक्षितीशो जगरक्षपाल(देकवीर): । एकादशेति प्रथयन्ति शङ्कां येनावताराः प्रथमस्य पुंसः ॥ राज्यं वेमः सुचिरमकरोत्प्राज्यहेमाद्रिदानो भूमीदेवैर्भुवमुरुमुजो भुक्तशेषामभुङ्क्त । श्रीशैलाग्रात् प्रभवति पथि प्राप्तपाता . . . सोपानानि प(प्र)थमपदवीमारुरुक्षुश्चकार ॥ माचक्षोणिपतिर्महेन्द्रमहिमा वेमक्षितीशाग्रजः हेमाद्रेः सदृशो बभूव सुगुणैस्तस्य त्रयो नन्दनाः । कीर्त्या जाग्रति रेड्डिपोतनृपतिः श्रीकोमठीन्द्रस्ततो नागक्ष्मापतिरित्युपात्तवपुषो धर्मार्थकामा इव ॥ वेमाधिपो माचविभुश्च नन्दनौ श्रीकोमटीन्द्रस्य गुणैकसंश्रयौ । भूलोकमेकोदरजन्मवाञ्छया भूयोऽवतीर्णाविव रामलक्ष्मणौ ॥ स वेमभूपः सकलासु विद्यास्वतिप्रगल्भो जगमोब्बगण्डः । कदाचिदास्थानगतः कवीनां काव्यामृतास्वादपरः प्रसङ्गान् ॥ अमरुककविना रचितां ( . . ) प्रकाशता नेतुम् ॥
For Private and Personal Use Only