SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 7804 A DESCRIPTIVE CATALOGUE OF तत्र तावत् शास्त्रेण वा (आशीर्नमस्क्रिया)वस्तुनिर्देशेन वा(शो वापीति) शास्त्रमनुसृत्य विशिष्टेष्टदेवतानमस्कारलक्षणं मङ्गलमारचय्य प्रथमश्लोकेन निबध्नाति-वन्द इति । बृन्दावनं नाम मथुरोपकण्ठे वनविशेषः । तत्र (चरतीति) बृन्दावनचरम् । चरेष्ट इति टप्रत्ययः । तत्पुरुषे कृति बहुलमित्यलुग्विधानस्य बाहुलकत्वात् सुपो लुक् । वल्लव्यः गोपजातीयाः स्त्रियः । वल्लवशब्दाजातिलक्षणो ङीष् । वल्लव्य इति जनाः वल्लवीजनाः इति कर्मधारयः । स्त्रीलिङ्गस्य परनिमित्तस्याभावात् (पुंवत् कर्मधारयेत्यादिना वल्लवीशब्दस्य न पुंवद्भावः । तेषां वल्लभम् “ सत्यवा(गा)र्जवरतिरूपं(तैरुप) कुर्वन् प्रियं वदनत् (न्)। भजते यः स्वयं प्रीतः प्रियः स भवति स्त्रियः ॥” इत्युक्तलक्षणं प्रि(य)म् । “दयितं वल्लभं प्रियम्" इत्यमरः । जयन्ती रोहिणीसहिता श्रवणमासस्य कृष्णाष्टमी । "जयं पुण्यं च तनुते जयन्तीं तेन तां (विदुः)" (इति पौरा)णिकैर्निरुक्ता । पृषोदरादित्वात्साधुः । तस्यां (संभवं प्रादुर्भूतम् । भवतेः पचाद्यच ; कजायः (अज्विधिः) सर्वधातुभ्य इति वचनात् । सप्तमीति योगविभागात्समासः । वैजयन्ती वनमाला । सा विभूषणं यस्य तथाभूतं धाम स्वप्रकाशज्योतिर्मयं वस्तु वासुदेवाख्यं वन्दे प्रणमामीति योजना ! वन्द इति वर्तमाननिर्देशः स्ववन्दनस्य सदानुवृत्तिपरः । न तु प्रबन्धारम्भसमये वर्तमानत्वमात्रप(रः), सङ्कोचे हेत्वभावात् । End: साधूनां स्वपदसरोजषट्पदानां धर्मस्य स्थितिमनघां विधातुकामः । यद्गर्भ जगदखिलं स एव गर्भो देवक्याः समजनि देवदेववन्द्यः ।। साधूनामिति । अखिलं जगत् यद्गर्भ यस्य कुक्षिस्थम् । “कुक्षौ कुक्षिस्थिते जन्तौ” इति नानार्थे वैजयन्ती। ___ संज्ञापूर्वकविधित्वेन वृद्धिशास्त्रस्यानित्यत्वात् । स्वपदसरोजेत्यत्र परम्परितरूपकालङ्कारः । प्रहर्षणी वृत्तमेतत् ॥ Colophon: __ इति कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु व्यासवेदार्णवामृते यादवाभ्युदये काव्यरत्ने प्रथमः सर्गः ॥ For Private and Personal Use Only
SR No.020205
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 20
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages454
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy