________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
THE SANSKRIT MANUURIPTS.
7405
(श्री)शङ्कराचार्यकृते स्तवेऽस्मिन् टीकां चिकीर्षोर्मम मन्दबुद्धेः । विदूषकस्येव वचोऽस्तु युष्मद्धासाय सन्तोऽस्मि तथापि धन्यः ।।
भगवान् परमकारुणिकः शङ्करावतारः शङ्कराचार्यः शिवशक्तयोरभेदं ज्ञापयितुं सकलप्रपञ्चसाक्षिण्या(:) ब्रह्माविनाभूतचिच्छक्तेः स्तुतिद्वारा मातृकादिमन्त्रानुद्वरति
शिवः शक्तया युक्तो(. . . .) मकृत पुण्यः प्रभवति ॥
शिव इति । जन्ममरणाद्यनेकलशसंचयैरुपचीयमानतापत्रयरूपामङ्गलाभावाच्छिवः सदा मङ्गलरूपः चिद्विलाससमुल्लसितपरमानन्दनिर्भरः । एतादृशः शक्तया कर्तुमकर्तुमन्यथाकतु प्रभवन्त्या सामर्थ्य विशेषस्फूर्त्या यदि युक्तो भवति तदा प्रभवितु प्रभुभवितुं शक्तो भवति । End: ____तथा स्वकीयाभिर्वाग्भिः मातृकास्वरूपा त्वमेव तवैव मातृकाक्षरैस्तवैवेयं स्तुतिः परापश्यन्तीमध्यमारूपया त्वयैवोल्लसितवैखरीसमुजम्भितत्वन्मयमातृकाकारैस्तवैव स्तुतिरिति मम स्तुती कर्तृत्वमेव नास्ति, सामर्थ्य नास्ति, त्वमेव सर्वत्र अनुस्यूता चेतनारूपा प्रतिभासस इति भावः।।
एषा सौन्दर्यलहर्याष्टीका सौभाग्यवर्धनीनाम्नी । कैवल्याश्रमरचिता विलसत्परदेवताप्रमोदकरी ॥ अत्राबद्धं कृतधियः सम्यगालोच्य तत्त्वतः । शोधयन्तु विशेषेण चेद्धसन्तोऽयमञ्जलिः ॥ किं विज्ञापनयानया यदि भवेदस्मत्कृतेरक्षरं ग्रन्थेऽत्र स्वयमेव साधुपुरुषा दूरीकरिष्यन्ति तत् । सन्मार्गे पतितानि कण्टककुलान्यालोक्य किं साधवो दूरीकृत्य न यान्ति तानि पथिकाः कर्तुं परेषां हितम् ॥ प्रकाशमानां प्रथमे प्रयाणे प्रतिप्रयाणेऽप्यमृतायमानाम् । अन्तः सधन्यामनुसंचरन्तीमानन्दमुद्रामवलोकयामः ॥
For Private and Personal Use Only