________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
THE SANSKRIT MANUSCRIPTS.
7019
A commentary on the work described under the last number: by Svayamprakasa, a disciple of Gopaalyogindra. Beginning:
यत्पादस्मरणं समस्तजगतां सर्वार्थसिद्धिप्रदं यन्नामश्रवणं विशुद्धमनसां ज्ञानप्रदं योगिनाम् । यत्कारुण्यकटाक्षवीक्षणमहो संसारसंतारणं तं विश्वेशमनन्तमाद्यममलं श्रीस्वप्रकाशं भजे ।। सर्वाधारमनाधारं सर्गस्थित्यन्तकारिणम् । सर्वज्ञं करुणामूर्ति श्रीरामं शरणं भजे ॥ यत्प्रसादादहं साक्षादीश्वराणामपीश्वरः । श्रीमद्गोपालयोगीन्द्रांस्तान्वन्दे करुणानिधीन् । आचार्यकृतिसंबन्धान्महाक्यं श्लाघ्यमेव हि । रथ्योदकं यथा गङ्गाप्रवाहपतनाच्छुभम् ॥
भगवान् सर्वज्ञः शंकराचार्यरूपेणावतीर्य प्रथमं ज्ञानसाधनवैराग्यमुपदिशन् परमकारुणिकत्वेन पितेव स्वतनयं बहिःप्राणचित्तं शिष्य[सं] संबोधयति-मूढ जहीहीति
मूढ जहीहि धनागमतृष्णां कुरु सद्बुद्धिं मनसि वितृष्णाम् ।
यल्लभसे निजकर्मोपात्तं वित्तं तेन विनोदय चित्तम् ॥ १ ॥ मूढ विवेकशून्य धनागमतृष्णां जहि परित्यज । हि यतः सर्वानर्थमूलं वित्तमिति न स्फुरति वा।
End:
सर्वविद्यानामात्मलाभान परं विद्यत इति च ।
यस्त्वात्मरतिरेव स्यादात्मतृप्तश्च मानवः ।
आत्मन्येव च संतुष्टस्तस्य कार्य न विद्यते ॥ इति । । श्रवणमननकालं ध्यानमेकान्तवासं विमलसुखमहाब्धी ममचित्तोऽनुजाने मुनिगण इव दृष्टे दण्डकारण्यचारे त्वयि करतचापे जानकीप्राणनाथे।
For Private and Personal Use Only