SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 6994 A DESCRIPTIVE CATALOGUE OF Beginning: वन्दामहे महाचार्यपादपाथोरुहद्वयम् । यत्प्रसादान्मदीयापि मतिस्तत्त्वार्थवेदिनी ॥ कवितार्किकसिंहस्य पादयोः प्रणतोऽस्म्यहम् । दयास्तवमिषायेन दर्शितं देहिनां हितम् ॥ इह खलु कवितार्किकसिंहः सर्वतन्त्र स्वतन्त्रो वेदान्ताचार्यः श्री मद्वेकटनाथार्यः प्रतिबन्धनिवृत्तिपूर्वकं परमपुरुषपदकमलपरिचरणरूपं परमपुरुषार्थमाभलषतो जनस्य भगवद्दयैव निरपायोऽभ्युपाय इति उपदेश परंपरया प्राप्त रहस्यमर्थ करुणावशेन तद्दयास्तुतिव्यपदेशेन प्रकाशयितुं प्ररत्तः प्रथमदशकेन प्रारिप्सितप्रबन्धपरिसमाप्तिप्रत्यूहप्रशमनापेक्षयास्य च रहस्यार्थस्य गुरुपरंपराप्रसादलब्धत्वेन तांस्तान्प्रणमन् वर्तिष्यमाणार्थमपि प्रतिजानीते। तत्र प्रथमं तेषामपि दयालौ भगवति भरन्यासस्य श्री मदृषाद्रिणा तस्य प्रकाशने सत्येव सुकरत्वात् परमोपकारितया भगवतत्त्वप्रकाशनेनैव गुरुकोटिनिविष्टतया तं दयापरिणामत्वेन स्तुवन् नम. स्यति प्रपद्ये तं गिरिं प्रायः . . यन्मूल् शर्करायितम् । तं वक्ष्यमाणप्रकारविशिष्टम् । गिरिमिति सामान्योक्तावपि श्रीनि. वासानुकम्पयेत्युक्ते वेङ्कटाद्रिनाथदयासमभिव्याहारात् वेङ्कटरूपविशेषणसिद्धिः, श्रीनिवासशब्दत्य वेङ्कटनाथे प्रसिद्धि प्राचुर्यात् । End: यदा अस्मिञ्छतके कश्चिदोषमुद्भावयति तया (दा)दिव्यदंपतिदयाकल्लोलकोलाहल एव दीनपक्षपाततया वृषाद्रिनिर्झरझरत्कारव्याजेन विजम्भमाणो दिशामुखानि मुखरयित्वा दोषोद्भवतः श्रवणं वारयति । वृषाद्रिनिर्झरझरत्कारैः दिशां मुखरीकरणं मदीयकृतिविषयदोषोद्भावनाश्रवणार्थ दव(या) कारितम् । एवं च दोषोद्भावनश्रवणमपि सा न क्षमते । सा कथं दोषोद्भावनं क्षाम्यतीति तात्पमिति सर्वमनवद्यम् ।। For Private and Personal Use Only
SR No.020203
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 18
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1915
Total Pages585
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy