________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
THE SANSKRIT MANUSORIPTS.
6938
Same work as the one described under R. No. 2 of the Triennial Catalogue of MSS., Vol. I, Part I-A.
No. 9865. अष्टश्लोकीव्याख्या.
AŞTAŚLOKIVYAKHYÁ. Pages, 38. Lines, 6 on a page.
Begins on fol. 12a of the MS. described under No. 5351. Complete.
A commentary on the Astaslbki : by Govindarya. of Visvamitragõtra and a disciple of Sathakāpa. Beginning :
विवृतरहस्यत्रितयां विस्पष्टां भट्टदेशिकोद्दिष्टाम् ।
विवृणोम्यष्टश्लोकी शठरिपुगुरुवर्यदर्शितेन पथा । परमकारुणिकः श्रीमान् पराशरभट्टायः सकलचेतनोजिजीवयिषया सर्ववेदसारतया सर्वदा मुमुक्षुभिरनुसन्धेयस्य रहस्यत्रयस्य नाथमुनिप्रभतिसत्संप्रदायपरम्पराप्राप्तमथे दिदर्शयिषुः प्रथमं स्वरूपज्ञानपूर्वकत्वादभीष्टो. पायप्रवृत्तेः स्वरूपप्रतिपादनपरमष्टाक्षरमन्त्रं विवृणोति चतुर्भिः श्लोकैः । अथ द्वाभ्यां स्वरूपानुरूपोपायपुरुषार्थप्रतिपादनपरं मन्त्ररत्नम् । ततो दाभ्यां तद्विवरणं चरमश्लोकः । तत्र सर्ववेदसारसंग्रहः प्रणवः तद्विवरणं मन्त्रशेषः, अकारस्य नारायणपदेन उकारस्य नमसा मकारस्य च नारपदेन विवरणात्। तद्विवरणं द्वयम्, मूलमन्त्रेण संग्रहेणोक्तस्य उपायोपेयस्वरूपस्य विविच्य प्रतिपादनात् । तद्विवरणं चरमश्लोकः, तदपेक्षस्वप्रापकान्तरपरित्यागस्य सर्वपापनिवृत्तेश्चाभिधानात्। अतः सर्वसंग्रहं प्रणवमादौ विवृणोति-- अकारार्थ इति। अत्राकारोपक्रमात् ग्रन्थादौ निर्विघ्नपरिसमाप्त्यर्थे मङ्गल. माचरितम् ।
End:
तस्मात्सिद्धसाधनस्वीकाररहितानामपि तादृशाभिमाननिष्ठानां भवति परमपदप्राप्तिरिति सत्संप्रदायविदां पन्थाः ॥
इत्थं कुशिककुलेन्दुर्गोविन्दार्यः शठारिसच्छात्रः । व्याचष्टाष्टश्लोकी प्रथयन् प्राचीनमेव पन्थानम् ॥
535-A
For Private and Personal Use Only