________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
THE SANSKRIT MANUSORIPTS.
6897
No. 9788. श्रीस्तुतिव्याख्या.
ŚRISTUTIVYÁKHYĂ. Substance, palm-leaf. Size, 14 x 14 inches. Pages, 69. Lines, 6
on a page. Character, Grantha. Condition, slightly injured. Appearance, old. Complete.
This is a commentary on the Śrīstuti of Vödāntadögika' by Ātrāya Varadārga. Beginning:
आत्रेयं वरदाचार्य श्रीनिवासार्यदेशिकम् । वेदान्तार्य यतीन्द्रं च शठारिं च रमां क्षमाम् ।। वासुदेवं कुलधनं भूवराहं प्रणम्य च ।
करिष्ये श्रीस्तुतिव्याख्यां बालानां बोधसिद्धये ॥ इह खलु सकलजगदुज्जीवनाय कलिविलसितकुमतिमतशतनिरसनाय च समुदित श्रीनिवासघण्टावतारतया प्रसिद्धः सर्वतन्त्रस्वतन्त्रो भगवान् वेदान्ताचार्यो भक्त्युपायानधिकारिणामुज्जीवनाय प्रपत्तिपथानुष्ठानं संप्रकाशं प्रबन्धान्तरेषु बहुशः प्रतिपाद्य तत्र पुरुषकारतया भगवता भाष्यकारेण गद्यादौ भगवन्नारायणेत्यादिना दर्शितां श्रीशरणागतिं मध्येगद्यं च असं. ख्येयकल्याणगुणगणश्रीवल्लभेत्यादिना गद्यान्ते च श्रीमन्नारायणेत्यनेन च सिद्धोपायकोटावनुप्रवेशेन च सूचितां श्रीविशिष्टशरणागतिं स्वयमपि विशदीकत लोकमातुर्विष्णुपत्न्या जीवत्वाणुत्वाद्यभ्युपगमेन निष्कर्षमिच्छता पक्षान् विक्षोभयितुं पुरुषकारत्वशरण्यत्वोपायत्वोपयिकान् गुणांश्च प्रकटयितुं स्तुतिव्याजेन दिव्यप्रबन्धमारभते—मानातीतेत्यादि । End:
सा पूर्वोक्तकल्याणगुणाकरतया प्रसिद्धा एषा एवंविधदिव्यमङ्गल. विग्रहा देवी सदा मे मह्यं संनिधत्तां संनिधानं करोतु इति प्रार्थना । मातुः संनिधाने हि प्रजायाः पुष्टिरिति भावः ॥
For Private and Personal Use Only