________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
6890
A DESORIPTIVE CATALOGUE OF
Beginning:
श्रीरङ्गनायाक जगत्रयकल्पवल्लि स्वापाङ्गलेशसमुदश्चितमङ्गलौघे । गम्भीरभावभवतीगुणरत्नकोशसंभावनोत्कमिह मां दययैव पश्य ।। भावितभाष्यकारमततत्त्वसमस्तसुधीसेवितकूरनाथगुरुवर्यसुतप्रवरः । श्रीनिधिरङ्गराडरुपराशरभट्टगुरुः श्रीगुणरत्नकोशमतनोन्मतिमन्महितः॥
शेषाचलायतनुजरामानुजगुरुजवेङ्कटनिवासः । प्रीतपादयति सुर्धाज्यः श्रीगुणरत्नौघकोशगतमर्थम् ॥
इह खलु निखिलजगदधीश्वरीरमणश्रीरङ्गनाथेन समस्तजगन्निरुपाधिकजनन्याः श्रीरङ्गनायक्याः . . . च विशेषतस्तनयतया पुरोहिततया च विहितादरातिशयः श्रीपराशरभट्टार्यः स्वकीयमातृत्वप्रयुक्तप्रतिपत्तिविशेषपरिष्कृतचित्तः श्रियो दयावात्सल्यादिगुणमणीन् कस्मिंश्चित स्तवे संग्रहीतुकामः श्रीगुणरत्नकोशाख्यप्रबन्धनिर्विघ्नपरिसमाप्त्यर्थ नमस्काररूपं मङ्गलमनुतिष्ठति----
श्रियै समस्तचिदचिद्विधानव्यसनं हरेः ।
अङ्गीकारिभिरालोकैः सार्थयन्त्यै कृतोऽञ्जलिः ॥ हरेः भगवतः समस्तचिदचिद्विधानव्यसनं सकलचेतनाचेतननिर्माणप्रयासम् । End:
श्रीवैष्णवैः सह त्वदीयगुणानुभवसंपदं दत्वा परत्रापि युष्मत्पादार. विन्दद्वन्द्वान्तरङ्गपरागतां प्रापयेत्यर्थः । पूर्वश्लोके विधितः कुतोऽपत्युिक्तमेव स्वीकुर्वकस्मात् कृपामिति विवृतम् ॥ Colophon:
इति श्रीगुणरत्नकोशव्याख्या शेषाचलायतनुजरामानुजगुरुजवेङ्कटनिवासविरचिता परिसमाप्ता ॥
For Private and Personal Use Only