________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
THE SANSKRIT MANUSCRIPTS.
6789
In praise of the Hindu trinity, i.e., Brahma, Visnu and Siva. Vināyaka and Kandarpa (the god of love) are also I praised in the beginning and end respectively. Beginning:
हेरम्बो जगदम्बिकाप्रियसुतः श्रीमान्प्रलम्बोदरो देवो हास्यरसाधिपः करिमुखः कर्णाञ्चले शोभितः । निघ्नन् विघ्नचयं च यो मम रिपुस्तोमं च हेमाम्बुजासीनः सोमकलाधरः स भवतां दिश्यात्सदा मङ्गलम् ॥ श्रीशः क्लेशहरो हरिमणिगणो वाचाभिरामाकृतिः गोविन्दो गरुडध्वजो मधुरिपुः श्रीवत्सलक्ष्माच्युतः । शाी चक्रधरः पुराणपुरुषः शेषाहितल्पो हरिः देव्या देवंशिखामणिः स भवतां दिश्यात्सदा मङ्गलम् ॥ . श्रीमान्सोमकलाधरो धरणिभृत्कन्याधवः शंकरः कारुण्यैकनिधिः कपर्दविलसद्गङ्गातरङ्गोज्ज्वलः । राजद्राजतशैलरत्नशिखरासीनः सुरेज्यादिभिः स्तुत्यो नित्यमनोरथः स भवतां दिश्यात्सदा मङ्गलम् ।। लक्ष्मीवल्लभफुल्लनाभिसरसीपङ्केरुहान्तर्भवो भाषायोषिदशेषगात्रसुषमाहोमप्रियंभावुकः । चित्रानल्पविकल्पकल्पितमहच्छिल्पानुकल्पाकृतिः सर्वज्ञश्चतुराननः स भवतां दिश्यात्सदा मङ्गलम् ।।
End:
श्रीकान्तांप्रियनन्दनो मनसिजः शृङ्गारदीक्षागुरुः शूरः पश्वशरः स्मरः शरभृतामग्रेसरो भासुरः । मीनाको मधुमासबन्धुरबलासैन्यः प्रसूनायुधः कन्दर्पो रतिवल्लभः स भवतां दिश्यात्सदा मङ्गलम् ॥
526-A
For Private and Personal Use Only