________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
THE SANSKRIT MANUSORIPIS.
6409
Beginning: नारद उवाच ---
भगवन् सर्वलोकेश सर्वशास्त्रार्थपारग । श्रुतिस्मृतिपुराणानां रहस्यं त्वन्मुखाच्छ्रुतम् ।। सर्वपापहरं देव केनाविद्या निवर्तते । केन वा ब्रह्मविज्ञानं किं नु वा मोक्षसाधनम् ॥
साधु साधु महाप्राज्ञ सम्यक्पृष्टं त्वयानघ । शृणु वक्ष्यामि यत्नेन गायत्यूष्टसहस्रकम् ॥
अस्य श्रीगायत्रीसहस्रनामस्तोत्रमन्त्रस्य ब्रह्मा ऋषिः, अनुष्टुप् छन्दः, श्रीगायत्रीसावित्रीसरस्वतीपरमात्मा देवता, हलो बीजानि, स्वराश्शक्तयः, बिन्दवः कीलकम्, मम ऐहिकामुष्मिकप्रीत्यर्थे गायत्रीसहस्रनामस्तोत्रमन्त्रजपे विनियोगः ।
अचिन्त्यालक्षणाव्यक्ता अर्थमा चामृतेश्वरी । अमृतार्णवमध्यस्था अजिता चापराजिता ॥ अणिमादिगुणाधारा अर्कमण्डलसंस्थिता । अजरा चामराचर्चा अक्षसूत्रधराधरा ।।
End:
हिरण्यवर्णा हरिणी हीङ्कारी हंसवाहना । क्षोमवस्त्रपरीताङ्गी क्षीराब्धितनया क्षमा ॥ गायत्रीश्चैव सावित्रीं प्रणमामि सरस्वतीम् । वेदगर्भी वरारोहां तोषयामि पुनः पुनः ॥ यानि नामानि लोकेषु गायत्र्याश्च मयोदितम् । अष्टोत्तरसहस्रं तु पठितव्यं द्विजैस्सह ॥
For Private and Personal Use Only