SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 6544 A DESCRIPTIVE CATALOGUE OF श्रीश्रीरङ्गपतिप्रसादतृषया श्रीरङ्गनाथाश्रयः श्रीरङ्गेश्वरकारितो विवृणुते नाम्नां सहस्रं हरेः ॥ संसारोऽयमपण्डितो भगवति प्रागेव भूयः कलौ पूर्णम्मन्यतमे जने श्रुतिशिरोगुह्यं ब्रुवे साहसात् । तत्र स्तोत्रमिदं प्रकाशयति यस्तुत्यश्च यस्तावुभौ व्यासः कारुणिको हरिश्च तदिदं मौख्य सहेताम्मम ।। अर्थे हरौ तदभिधायिनि नामवर्गे तयञ्जके मयि च बद्धविशेषमेत्य । सेवध्वमेतदमृतं प्रणिपत्य याचे मध्यस्थमत्सरिजना इह मा च भूवन् ॥ इह खलु निखिलोऽपि चेतयमानः प्रमाणतः प्रमेयं परिच्छिन्दन्तश्चेत् प्रमेयमनुकूलं तदुपाददीत, यथा स्त्रक्चन्दनकनकादिकम् ; तच्चेद्विपरीतमपोहेत, यथा क्षुरकण्टकादिकम् ; तच्चेदनुभयरूपमुपेक्षेत, यथा काष्ठलोष्टादिकम् । तत्र प्रत्यक्षादिप्रमाणान्तरगोचरयोरर्थकामयोरत्यल्पत्वानर्थकत्वबीभत्सत्वभङ्गुरत्वदुःखमिश्रत्वदुस्साधनत्वाद्यनन्तदोषानुषङ्गेण त्याज्यत्वात् शास्त्रप्रमेययोधर्मपरयोस्तद्वैपरीत्यादनन्तमङ्गलसङ्गतत्वाच्च शास्त्रतदर्थयोरुपादेयत्वं प्रकृष्यते । यथाहुतिहासिकाः एवंविधदोषहानगुणवत्त्वतारतम्येन उपायोपेययोस्तरतमभाव उभ. - यत्रापि संभवति । उत्कृष्टतमे उत्कृष्टोत्कृष्टतरयोनिकृष्टवद्वर्जनीयत्वमेव । तत्रानिष्टेभ्य इष्टेऽपि निकृष्टेभ्यो निकृष्योत्कृष्टतममुपादातुमुपायोपेयौ सह तारतम्येन प्रष्टव्यौ । तौ च विवक्षावशेन षोढा विभज्य पृच्छन् युधिष्ठिर उवाच-किमेकमित्यादिश्लोकद्वयन । तत्रोपायस्योपेयार्थत्वात् प्रधानभूतमुपेयं पृच्छतस्तस्य च तत्त्वशास्त्रेषु परतत्त्वात्मना फलशास्त्रेषु परतत्त्वात्मना च द्वेधोपदेशदर्शनात् प्रथमं परतत्त्वरूपं पृच्छति-किमेकं For Private and Personal Use Only
SR No.020202
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 17
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1914
Total Pages330
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy