________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
TEIE SANSKRIT MANUSCRIPTS.
6159
Beginning:
एकदन्तं शूर्पकर्ण गजवक्रं चतुर्भुजम् । पाशाङ्कुशधरं ध्यायेत्सर्वविघ्नोपशान्तये ।। ध्यायेद्गजाननं देवं तप्तकाञ्चनसन्निभम् । चतुर्भुजं महाकायं सर्वाभरणभूषितम् ॥ दन्ताक्षमालापरशुं पूर्णमोदकपात्रिणम् । मोदकंसप्त(कासक्त)तुण्डाग्रमेकदन्तं विनायकम् ।। दन्तमध्ये करं चैव द्वितीये साक्षसूत्रकम् । तृतीये परशुं चैव चतुर्थे मोदकं न्यसेत् ॥ ध्यानम् ।
Colophon:
इति विनायकव्रतकल्पपूजाविधानं संपूर्णम् ।। अथ कथा--
अरण्ये वर्तमानास्ते पाण्डवा दुःखद(क)र्शिताः । व्यासशिष्यं महात्मानं सूतमूचुः कुतूहलात् ॥ निर्विघ्नेन तु कार्याणि कथं सिध्यन्ति सूतज ।
मासे भाद्रपदे शुक्ले चतुर्थी पूजयेन्नरः । यदा वोत्पद्यते भक्तिः तदा पूज्यो गणाधिपः ॥ प्रातशुक्लैस्तिलैस्स्नात्वा मध्याह्ने देवमर्चयेत् ।
End:
य इदं शृणुयान्नित्यं श्रावयेद्वा समाहितः ।
सिध्यन्ति सर्वकार्याणि सिद्धिस्व(द)स्य प्रसादतः ॥ Colophon :
इति श्रीस्कन्दपुराणे सिद्धिविनायकव्रतकल्पं सम्पूर्णम् ।।
For Private and Personal Use Only