________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
TAE SANSKRIT MANUSORIPTS.
5611
Beginning:
उद्दामामणिद्युतिप्रतिभटप्रारब्धकूल कषा यत्तेजस्त्रसरेणवो जगदपध्वान्तं सदा कुर्वते । यः पद्मापरिरम्भसम्भ्रमभरव्यग्रेण (ग्राप) दोल्लरी(रिः) पायाद्वस्स ह (हि) खेचरीपुरमहोग्रश्रीनृकण्ठीरवः ।। सर्वविघ्नप्रशमनं सर्वासद्धिकरं परम् । सर्वजीवप्रणेतारं वन्दे विजयदं हरिम् ॥ श्रीकरं शङ्करावाससिद्धचारणसेवितम् । सदा मुनिजनावासं सायुज्यप्रदमव्ययम् ॥ नानाकल्पद्रुमाकीर्ण शिवचिन्तामणीयुतम् । कामधेनुसहस्रेण शोभितं पर्वतोत्तमम् ॥ नित्यमुक्तसमायुक्तं सत्यज्ञानसमावृतम् । अच्छिन्नभक्तसंसेव्यं महाकैलासमन्दिरम् ॥ तत्र तातं महारुद्रं कुमारस्सादरात्ततः । उवाच परमं वाक्यं नत्वा भक्त्या समादरात् ।। चतुर्दश महाविद्याश्चन्द्रचूड तवाज्ञया। अभ्यस्तोऽहमहं सम्यक्साधु भो पार्वतीपते ॥ प्रयोगविद्याविपुलं शत्रुसंहारकारकम् । नोक्तवान्मम सर्वेश किमर्थ करुणाकर ।। पुत्रोऽस्मि तव शिष्योऽस्मि ब्रह्मचारी जितेन्द्रियः ।
किमर्थ गोपनं तात वद वात्सल्यगौरवात् ॥ ईश्वरः
साधु साधु महाप्राज्ञ क्रौञ्चभेदनकोविदः । गोपनीया प्रयत्नेन अस्त्रविद्या कदाचन ॥
For Private and Personal Use Only