________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
THB SANSKRIT MANUSCRIPTS. 5883 १०. स्नेहविद्वेषणक्रमः. । १३. स्वप्नगतकार्यपरिज्ञानम्. ११. उच्चाटनक्रमः.
१४. प्रतिमाप्रयोग विधिः. १२. स्तम्भनक्रमः. | १५. गणपतियन्त्रधारणविधिः. Beginning:
नमस्ते नाथ भगवन् शिवाय गुरुरूपिणे !
गाणपत्यं महामन्त्रं श्रोतुमिच्छामि मे वद ॥ ईश्वर उवाच
गाणपत्यं महागुह्यं गोपनीयं प्रयत्नतः । तथापि तव वक्ष्येऽहं साधिकासि ममाम्बिके । कृष्णाष्टम्यां समारभ्य यावत्कृष्णचतुर्दशी । अष्टोत्तरसहस्रन्तु प्रजपेन्नित्यमादरात् ।। मूलमन्त्रेण तेनैव अष्टोत्तरशतं सुधीः । तर्पयित्वा तु मूलेन एकादश तथाहुतीः ।। कृत्वा रहसि चासीनः मूलमष्टोत्तरं जपेत् ।
Colophon:
इति प्रयोगान्तरे सिद्धयामले शक्तिगणपतिविद्यायां गर्भकौलागमे योनिसारतन्त्रे प्रथमः पटलः ॥ End:
शाकिनीभूतबेतालभये सर्वत्र सकटे । निर्भयत्वमवाप्नोति नात्र कार्या विचारणा ॥ तद्यन्त्रं धारिणां पुंसां राजस्त्रीजनवश्यदम् ।
सर्वजन्तुवशश्चैव सर्वसौख्यकरं भवेत् ॥ Colophon:
इति श्रीसिद्धयामलतन्त्रे प्रत्यक्षसिद्धिप्रदखण्डे उमामहेश्वरसंवादे गणपतियन्त्रधारणविधिर्नाम पञ्चदशः पटलः ॥
For Private and Personal Use Only