________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
THE SANSKRIT MANUSCRIPTS.
5857
श्रीकराम्भोजयुगले कस्तूरीपङ्कसङ्कुले । नखैलिखन्तं चित्राणि श्रीनृसिंहमहं भजे ।।
ओङ्कारवाचकं साक्षान्महोग्रश्रीनृकेसरिम् । हृदि ध्यात्वा प्रवक्ष्यामि यत्तत्सिध्यतु मे वचः ।। मन्त्रात्मकं मन्त्रमूर्ति महोग्रश्रीनृकेसरिम् । हृदि ध्यात्वा प्रवक्ष्यामि यत्तत्सिध्यतु मे वचः !!
पार्वत्युवाच --.
भूसुरार्चित भूतेश शेषकङ्कण शङ्कर । लङ्केशार्चितपादाब्ज नमस्ते शाङ्करीपते ।।
भूतले शाबरं मन्त्रं वर्तते साधकं विना ।
पठासि (हठात्सि)द्धिकरी विद्या पावनं वद मे प्रभो ॥ ईश्वर उवाच----
मम मानसपुत्रोऽस्ति मत्स्येन्द्रेभ्यो महाबलः । चोलकेरलकर्णाटकान्ध्रपूर्जरदेशिकः ॥ शिष्यपश्चकसंयुक्तस्तपस्तेपे सुदारुणम् ।।
तत्र प्रसन्नो भगवान् हंसरूपी परात्परः ॥ हंस उवाच -
किमस्ति काङ्कितं ब्रूहि आदिनाथ परात्परम् ।
असाध्यमपि योगीन्द्र वदाम्येतद्रतं मम ॥ आदिनाथ उवाच ---
प्रत्येकं मन्त्रशास्त्रं तु कौलाचारमतानुगम् । कौलाचारविहीनं तु कल्पयाम्पहमादरात् ॥
644-A
For Private and Personal Use Only