________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
5702
A DBSORIPTIVE CATALOGUE OF
The 8th Adhyāya of Atharvaņarahasya.
On the order of arrangement of the syllables constituting the Narasimhamantra which is considered to have che power of neutralising the barmful effects of other Mantras. Beginning:
श्रीलक्ष्मीरुवाच... देवदेव महादेव नरसिंह जगत्पते ।
परमन्त्रनिवारः स्यात् केनोपायेन मे बद ।। श्रीनृसिंह उवाच--
शृणु देवि प्रवक्ष्यामि मम मन्त्रमभीष्टदम् । ग्रहमारणमन्त्रं च जपेदावश्यकं प्रिये ॥ आदौ वेदादिमुच्चार्य नृसिंहं तारकं तथा । परमन्त्रप्रदं चैव प्रध्वंसनकरं परम् ॥ नृसिंहाय ततः पश्चात् वह्निजायेति उ(चो)द्धरेत् । षोडशाक्षरमन्त्रेण परमन्त्रविघातनम् ॥ ऋषिः कपिलविष्णुश्च छन्दोऽतिजगती तथा । नृसिंहो देवता चेति क्षकारं बीजमेव च ॥ वहिश्शक्तिस्ततश्चैव औकारं कीलकं तथा ।
सर्वापत्तारणं चेति विनियोगः प्रकीर्तितः ॥ End:
उग्रास्यं रक्तकेशं प्रलयशिखिनिभं सोमसूर्याग्मिनेत्रं द्वात्रिंशदाहुदण्डे दधतमसिगदाशङ्खचक्राब्जशाङ्गम् । कापालं ब्रह्मदण्डं हुतवहसदृशं प्रज्वलत्पावकाक्षं क्षां क्षीं क्षौं बीजरूपं नरहरिवपुषः पातु मां नारसिंहम् ॥ पलायन्ते यथा नागाः पक्षिराजस्य दर्शनात् । सत्यं सत्यं यथा सत्यं नृसिंहस्मरणं प्रिये ॥ गोपनीयं प्रयत्नेन सर्वकार्यार्थसिद्धिदम् । सर्वान् कामानवामोति नात्र कार्या विचारणा ॥
For Private and Personal Use Only