________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
THE SANSKRIT MANUSCRIPTS,
4411
मण्टपे वेदिकामध्ये भूपुरत्रयवेष्टिते । उपक्रम्य ततः कुर्याद्वेदिकायां त्रिरेखया ॥ व्रीह्यादिपञ्चधान्ये(न्यं) च प्रग्रहेत्कुलनायिके । चतुर्दलं ततः कृत्वा मध्ये बिन्दुसमन्वितम् ।। शिष्यमाहूय दीक्षार्थ यथावत्क्रियतां गुरुः । बल्युद्दासनकाले तु अभीष्टं देवि दीयताम् ॥ श्रीपात्रबिन्दुमुद्धृत्य खात्मपात्रेण पूरयेत् ।
पूर्णाभिषेकसिद्ध्यर्थ दीपेन सह दीयताम् ॥ Colophon:
इति परानन्दतन्त्रे सपादलक्षग्रन्थे मन्त्रखण्डे द्वितीयपादे द्वात्रिंशद्दीक्षाक्रमो नाम पञ्चमोपदेशः ॥
अथ वक्ष्ये कुलेशानि पूर्णदीक्षाविधिं शृणु । पूर्णदीक्षाकरो लोके दुर्लभो गुरुपुङ्गवः ॥ अहमेव कुलेशानि गुरुरूपं समाश्रितः । षोडशद्वयदीक्षाभिर्युक्तः परमधार्मिकः । शिष्यस्य नाम कर्तव्यं नागानन्द इति प्रभुम् ।
End :
पूर्णदीक्षाक्रमं देवि यस्य कस्यापि नोच्यते ॥ द्वादशाब्दं गुरुः शिष्यं परीक्ष्य क्रममुच्चरेत् । पूर्णदीक्षाविधिस्सम्यङ्मया ते संप्रकाशितः ।।
समासेन वरारोहे किं भूयः श्रोतुमिच्छसि । Colophon:
इति श्रीपरमानन्दतन्त्रे सपादलक्षग्रन्थे मन्त्रखण्डे द्वितीयपादे षोडशोपदेशः ॥
For Private and Personal Use Only