________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
THE SANSKRIT MANUSCRIPTS.
4383
नवोपनिधयो ह्यत्र विद्योपास्तिमहानिधौ । विद्योद्धारस्तु नाथैकलभ्यत्वान्नेह कीर्त्यते ॥ गुरुशिष्यस्वरूपं च तत्सेवाचार एव च । राश्यादिशोधनं सर्वप्रतिष्ठाकाललक्षणम् ।। यन्त्रप्रतिष्ठा वर्णानामोषध्यश्चक्रमेव च । मातृकाचक्रनिर्माणं प्राणविद्याविधिस्तथा ॥ सम्पुटादिस्वरूपं च मूर्तिस्थापनकर्म च । दक्षिणानिर्णयो दीक्षा विद्याप्राप्तिविधिस्तथा !) मन्त्रदोषपरीहारो मन्त्रार्थानां निरूपणम् । ततः प्रयोगौ क्रमतश्चक्रशिष्यप्रतिष्ठयोः ।
विद्याप्राप्तिप्रयोगश्च निधावस्मिन्ननुक्रमात् ॥ इह खलु परमपुरुषार्थस्य अविद्यानिवृत्त्यधीनत्वात्तन्निवृत्तेश्च विद्योपास्त्यायत्तत्वात्तस्याश्च सुन्दरीहृदयादिनानातन्त्रोपदिष्टत्वेऽपि कादिमतखतन्त्रतन्त्रराजपूर्णतन्त्ररूपनामचतुष्टयवाच्यैतत्तन्त्रे
भगवन् सर्वतन्त्राणि भवतोक्तानि मे पुरा । नित्यानां षोडशानां च नव तन्त्राणि कृत्स्नशः ॥ तेषामन्योन्यसापेक्ष्याज्जायते मतिविभ्रमः । . तस्मात्तु निरपेक्षं मे तन्त्रं तासां वद प्रभो ॥
शृणु कादिमतं तन्नं पूर्णमन्यानपेक्षया । इति देवीदेवप्रश्नोत्तराभ्यामनन्यानपेक्षनिर्वहणानुष्ठानबोधके तत्तत्रोपदिष्टप्रकारविद्योपास्तिरेव परमपुरुषावाप्तिनिश्चितोपायत्वात्तादृशविद्योपास्तेः प्रतिष्ठाधिकारिकर्तृकत्वात्तत्प्रातिष्ठायाश्च गुरुमूलकत्वात्तद्विज्ञानाय तल्लक्षणं प्रथम निरूप्यते ।
371-A
For Private and Personal Use Only