________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
4866
A DESCRIPTIVE CATALOGUE OF
A work in 400 stanzas explaining the 16 different manifestations of the goddess Sakti. This work also goes by the name of Nityāsādasikārņava. Beginning:
गणेशग्रहनक्षत्रयोगिनीराशिरूपिणीम् । देवीं मन्त्रमयीं नौमि मातृकापीठरूपिणीम् ॥ प्रणमामि महादेवी मातृकापरमेश्वरीम् । कालहल्लोहलोल्लोलकलनाशमकारिणीम् ॥ यदक्षरैकमात्रेण संसिद्धेस्स्पर्धते नरः । रवितायेन्दुकन्दर्पशङ्करानलविष्णुभिः ॥ यदक्षरशशिज्योत्स्नामण्डितं भुवनत्रयम् । वन्दे सर्वेश्वरी देवी महाश्रीसिद्धमातृकाम् ॥ यदक्षरमहासूत्रप्रोतमेतज्जगत्रयम् । ब्रह्माण्डादिकटाहान्तं तां वन्दे सिद्धमातृकाम् ॥
नित्याप्षोडश मे देव सूचिता न प्रकाशिताः । इदानीं श्रोतुमिच्छामि तासां नामानि शङ्कर ।। एकैकचक्रपूजां च परिपूर्ण समन्ततः ।
अनेकदेवतानाममन्त्रमुद्रागणैस्सह ॥ ईश्वर उवाच--
शृणु देवि प्रवक्ष्यामि नित्याषोडशिकार्णवम् । न कदाचिन्मयाख्यातं सर्वतन्त्रेषु गोपितम् ॥ तत्रादौ प्रथमा नित्या महात्रिपुरसुन्दरी । ततः कामेश्वरी नित्या नित्या च भगमालिनी ।। नित्याक्लिन्नापि हि तथा भेरुण्डा वह्निवासिनी । महाविद्येश्वरी दूती त्वरिता कुलसुन्दरी ॥
For Private and Personal Use Only