________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
4714
A DESCRIPTIVE CATALOGUE OF
Beginning : नारद उवाच
भगवन्तं देवदेवं ब्रह्माणं परमेष्ठिनम् । विधातारं विश्वसृजं पद्मयोनि प्रजापतिम् ।।
विनयेनोपसङ्गम्य शिरसा प्रणिपत्य च । नारदः परिपप्रच्छ देवर्षिगणमध्यगः ।। भगवन् देवदेवेश सर्वज्ञ करुणानिधे। श्रोतुमिच्छामि यत्नेन भोगमोक्षैकसाधनम् ॥
शृणु नारद वक्ष्यामि ब्रह्ममूलं सनातनम् । सृष्ट्यादौ मन्मुखे क्षिप्रं देवदेवेश विष्णुना ॥
सावित्रीपञ्जरं नाम रहस्यं निगमत्रये । ऋष्यादिकं च दिग्वर्ण साङ्गावरणकं क्रमात् ।। वाहनायुधमन्त्रास्त्रमूर्तिध्यानपुरस्सरम् । स्तोत्रं च तेऽहं वक्ष्यामि त्वयि स्नेहाच्च नारद ॥
ओं त्रिपदा वाङ्मयी पूर्वमुखी ब्रह्मास्त्रसंज्ञिका ।
चतुर्विंशतितत्त्वाढ्या पातु प्राची दिशं मम ।।
End:
अनुक्तमपि यत्स्थानं शरीरेऽन्तर्बहिश्च तत् । तत्सर्वं पातु मे तत्त्वं हंससोमावहर्निशम् ॥ इदं ते कथितं सम्यगस्माभिर्बह्मपञ्जरम । सन्ध्ययोः प्रत्यहं भक्त्या जपकाले विशेषतः ।। किमत्र बहुनोक्तेन शृणु नारद तत्त्वतः ।
For Private and Personal Use Only