________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
THE SANSKRIT MANUSCRIPTS.
4657
Two pages in the middle are lost. Forms part of the Uttaratantra.
Addressed to the goddess Kāli as a prayer for protection. Beginning :
कैलासशिखरे रम्ये भैरवञ्चन्द्रशेखरम् ।
वक्षःस्थले समासीना भैरवी परिपृच्छति ॥ भैरव्युवाच
देवेश परमेशान लोकसंहारकारक । कवचं सूचितं पूर्व किमर्थन्न प्रकाशितम् ॥ यदि मे महती प्रीतिः तवास्ति कुलभैरव ।
कवचं कालिकादेव्याः कथयस्वानुकम्पया ॥ भैरव उवाच
कथयामि शृणु प्राज्ञे कालिकाकवचं परम् ।।
गोपनीयं प्रयत्नेन स्वयोनिरपरा यथा ॥ अस्य श्रीसर्वविद्यामहाराज्ञीकवचस्य, भैरव ऋषिः, अष्टिच्छन्दः, अद्वैतस्वरूपा कालिका देवता; ही बीजं, हुं शक्तिः, श्रीं कीलकं, सर्वाभीष्टसिद्ध्यर्थे जपे विनियोगः ।
सहस्रारे शिरः पञ कर्पूरधवलो गुरुः । वामोरुस्थिततच्छक्तिः सदा मां परिरक्षतु ॥ परमाख्यो गुरुः पातु परापरगुरुस्तथा । परमेष्ठी गुरुः पातु दिव्यसिद्धाश्च मानवाः ।।
End:
सर्वकामप्रदा देवी सर्वरोगक्षयङ्करी । दक्षिणे बाहुमूले वै यदि तिष्ठति सर्वदा ॥ तथा सर्वार्थसिद्धिः स्याद्ययन्मनसि वर्तते ।
For Private and Personal Use Only