________________
Shri Mahavir Jain Aradhana Kendra
4338
www.kobatirth.org
*
(व्या.)
इह खलु भगवती महादेवी अनादिसंसारसागरनिममभक्तजनानु ग्रहार्थं सर्वव्यापक मूर्तेः सकलजगदानन्दहेतोः सदाशिवस्य ज्ञातुमिच्छन्ती प्रथमं स्वरूपयाथात्म्यं तत्रादौ प्रस्तौति – आनन्दकन्दभूतायेति ।
(मू.)
Acharya Shri Kailassagarsuri Gyanmandir
A DESCRIPTIVE CATALOGUE OF
आनन्दकन्दभूताय जगदानन्दहेतवे । नमस्त भोगाय महालिङ्गाय शम्भवे ॥
आनन्द इति । आनन्दो ब्रह्मानन्दः तस्य कन्दभूताय मूलस्वरूपायेत्यर्थः । चैतन्यविशिष्टसकलजन्तूनामानन्दप्राप्तिहेतुभूताय । सततभोगाय अनवरतानुभूयमानपरमानन्द सौख्याय दु:खलेशरहितायेति भावः ।
Colophon:
अत्र कामेश्वरः
महादेव्यै महालिङ्गस्वरूपं तन्माहात्म्यमेतदधिकारिजनलभ्यमानफलादिकं निरूप्य विज्ञान [[वि] स्वरूपादिकं कथयामीत्युक्तवानिति भावः । इदं शास्त्रमाधुनिकं प्राचीनं वेति शङ्कानिरासार्थमेतन्मूलग्रन्थोदाहर णम् । इदमानन्दत द्वात्रिंशत्कोटिग्रन्थसङ्ख्याविशिष्टनित्याषोडशिकार्णवतन्त्र नामक ग्रन्थान्तर्गतशतसहस्रसङ्ख्याकग्रन्थपरिमाणविशिष्टभगमा -
लिनीसंहिताख्यग्रन्थस्थितमिदमानन्दतन्त्राख्यशास्त्रमित्यर्थः ॥
आनन्दतन्त्रग्रन्थे प्रथमाध्यायस्य टीका रचिता ||
श्रीमद्राजाधिराजाति तरविनुतवाक्चातुरीवैभवेन पिल्लि पवनसुत्रौ भूपरिवृढमणिना सन्ततं पोषितेन ।
श्रीमौद्गल्यान्ववायप्रजनितनरसिंहार्यनाम्ना प्रणीता टीका लोकोपकर्त्री वि (हि) जयतु विदुषां मानसं तोषयन्ती ||
For Private and Personal Use Only
.