________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
THE SANSKRIT MANUSCRIPTS.
4513
ज्ञानेन निवर्तनीयः ? किमुपाध्युपधेययोरन्यतरहानेन तत्संबन्धहानेन वा ! न हि निपुणतरदर्शिनोऽप्युपाधियोगे स्फटिकलौहित्यभ्रमनिवृत्तिरस्ति । तत्रेहव(न) सर्वसत्तास्फुरणात्मनो हानिः संभवति ; न च संबन्धस्य तस्य तदुभयस्वरूपानतिरेकात्परिशेषादुपाधिहानादेव भ्रमनिवृत्तिर्वा । आत्मज्ञानात् उपाधिहाने च कारणान्तरमन्वेष्टव्यम् ; तच्चेश्वरभक्तिरेव अलौकिकत्वाच्छ्रुतिस्मृतिसिद्धा यथा—
तत्र सत्त्वं निर्मलत्वात् प्रकाशकमनामयम् । सुखसङ्गेन बध्नाति ज्ञानसङ्गेन चानघ ॥ रजो रागात्मकं विद्धि तृष्णासङ्गसमुद्भवम् । तन्निबध्नाति कौन्तेय कर्मसङ्गेन देहिनम् ॥ तमस्त्वज्ञानजं विद्धि मोहनं सर्वदेहिनाम् । प्रमादालस्यनिद्राभिस्तां निबध्नाति भारत । इत्युपक्रम्य,
मां च योऽव्यभिचारेण भक्तियोगेन सेवते । सगुणान् स व्यतीत्यैतान् ब्रह्मभूयाय कल्पते ॥ इत्युपसंहरन्, भगवानेवात्ममुक्तेस्त्रिगुणात्मकान्तःकरणलयपूर्वकब्रह्मानन्दावाप्तिलक्षणमुक्ति - हेतुतामाह–आत्मसिद्धिस्तु सर्वसत्ताप्रकाशतयेति । सर्वमेतद्द्वितीयतृतीया(ध्याययोः)स्फुटीभविष्य (ती) ति । तस्मात्पुरुषार्थहेतुत्वाद्धर्मस्येव भक्तेर्मी मांसाविधित्सया इदं सूत्रम्-'अथातो भक्तिजिज्ञासा" अथेत्ययमधिकारार्थो न त्वानन्तर्यार्थः ।
66
End:
Acharya Shri Kailassagarsuri Gyanmandir
नचाविर्भावस्याविर्भावान्तरावश्यकत्वे अनवस्थागौरवयोरन्यतरप्रसङ्गः ; घटसामग्र्या एवाविर्भावादस्याविर्भावत्वात् । एवं च घटस्य पूर्वपूर्वाविर्भावतिरोभावपरम्परैव प्रागभावः, तिरोभाव एव नाशः । स च क्वचिदात्यन्तिकोऽपि यथा देवदत्तशरीरस्य यथा वा मुक्तबुद्ध्यादीनामन्योन्याभावात्यन्ताभावौ च परस्परविरुद्धधर्मतदधिकरणयोर्नातिरिच्येते; अन्यथा अभा
For Private and Personal Use Only