________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
THE SANSKRIT MANUSCRIPTS.
4498
Colophon:
इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीकृष्णानन्दसरस्वतीभगवत्पूज्यपादशिष्यश्रीमदात्रेयगोत्रकुरविशेरिकुलमणिदीपरङ्गनाथसूरिविरचिते पुरुषार्थरत्नाकरे मुक्तगतिविवेको नाम पञ्चदशस्तरङ्गः ॥
सरळमनसां सर्वज्ञानां सभासु वदावदै. स्सुरगुरुरयं सा वा संज्ञान्तरेण सरस्वती । वटतरुतटीवासी विद्यागुरुः किमिति स्तुमो जयति नितरां कृष्णानन्दो गुरुर्जगतीगुरुः ॥ पूर्णानन्दाय गुरवे पुरुषोत्तमयोगिने । शिवरामसरस्वत्यै श्रीमद्गोपालयोगिने ॥ स्वयम्प्रकाशमुनये रामभद्रव्रतीन्दवे । कृष्णानन्दसरस्वत्यै करोम्यनुकलं नमः ।। त्रय्यन्तप्रतिपादितं प्रतिमुहुस्तात्पर्यलिङ्गैस्स्फुटैः तत्त्वं किञ्चन तापसैः परिचितं तापत्रयोन्मूलनम् । कृष्णानन्दसरस्वतीति कलिताभिख्यं कृपालुं गुरुं विद्यानामधिदेवतामहरहर्वन्दे परां देवताम् ॥ भजन्तु कतिचिद्भवं भवनिवृत्तिबद्धादरा व्रजन्तु च परे मुहुर्विबुधसिन्धुमुख्या नदीः । मखैर्मघवदादिमान्परिचरन्तु वान्ये त्वहं गुरुप्रवरपादुके शरणये शरण्ये नृणाम् ।। सारं सूक्तिसुधाझरीपरिगतं षडर्शनीविस्तरं माधुर्य मकरन्दफाणितमधुद्राक्षानिभानां गिराम् । शीलं साधुजनादृतं शिशिरितापाङ्गाश्रिमदैवतं सेवे सुन्दरमन्दहासवदनं श्रीबालकृष्णं गुरुम् ।।
378
For Private and Personal Use Only