SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 米 THE SANSKRIT MANUSCRIPTS. Acharya Shri Kailassagarsuri Gyanmandir दयादृष्ट्या वृष्ट्या कळममिव काले सफलयन् जगत्यत्र श्रीशो जयति कुहनावामनवटुः || कळमधुरात्यभिरामे कलमधुरालापको किलारामे । तस्मिन् सुजनवासे कावेरीहारिणि ग्रामे || शुभचरि (तो) ऽखिलमित्रं सज्जनसामान्यसम्पदार्यमतिः । गुरुजनवृद्धविनीतो गुणमणिखनिरस्ति रङ्गनाथसुधीः | सुमतिरिह स रङ्गनाथ बुधो रचयति पुरुषार्थरत्नाकरम् । विशदतरपुराणसारामृतै सुनिभृतमवगाहनीयं सताम् || सङ्गृह्य वैष्णवपुराणसुभाषितानि कापीतरार्षवचनानि स रङ्गन (1) थः । आत्रेयगोत्रतिलकः कुरुते पुमर्थरत्नाकरं कुरविशेरिकुलप्रदीपः ॥ 4491 इह खलु विद्यास्थानेषु ब्राह्मादिपुराणानि परिगणितानि - पुराणन्यायमीमांसाधर्मशास्त्राङ्गमिश्रिताः । वेदाः स्थानानि विद्यानां धर्मस्य च चतुर्दश || इति । तथा— अङ्गानि वेदाश्चत्वारो मीमांसा न्यायविस्तरः । पुराणं धर्मशास्त्रं च विद्या ह्येताश्चतुर्दश || For Private and Personal Use Only Colophon : इति श्रीमदात्रेयगोत्र कुरवशेरिकुलमणिदीपरङ्गनाथसूरिविरचिते पुरुपार्थरत्नाकरे पुराणप्रामाण्यविवेकः प्रथमस्तरङ्गः ॥ पुरुषार्था लक्ष्यन्ते -- इह खलु धर्मार्थकाममोक्षाख्याश्चत्वारः पुरुषार्था लोकशास्त्र प्रसिद्धाः । तत्र प्रमाणकार्याभ्यां धर्मो लक्षितो जैमिनिना – चोदनालक्षणोऽर्थो धर्म इति । चोदनेति क्रियायाः प्रवर्तकं वचनमाहुः । तल्लक्षणस्तत्प्रमाणकः । अर्थः श्रेयस्साधनम् ।
SR No.020197
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 12
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1912
Total Pages457
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy