________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
4466
A DESCRIPTIVE CATALOGUE OF
ग्रन्थकर्तृनामनिगमनञ्च । श्रीदेशिकेन्द्रं शिरसा प्रणम्य श्रीश्रीनिवासो द्रविडोद्भवोऽहम् । श्रीमत्सपर्याक्रमकल्पवल्लयाः श्रीचण्डिकाया यजनं प्रवक्ष्ये ।। सर्वागमन्यासरहस्यभूतं सर्वेप्सितार्थप्रदमाशु लोके । स्कन्दाय यड्डाम(र)तन्त्रसारे प्रोक्तं पुराणेषु च कौशिकेन ।। तब्राह्मणोक्तं गुरुतस्त्वधीत्य ज्ञात्वा रहस्यं गुरुभाषितस्य । मेधामुनिर्यत्सुरथाय राज्ञे सन्दिष्टवान् तत्त्वविदात्मनिष्ठः ॥
Colophon:
इति सपर्याकल्पवल्यां प्रथमस्तबकः ॥ End: __इति संहितोक्तेः सुवाभावे अश्वत्थस्य वा पलाशस्य वा मध्यपत्रं पिप्प(ल)दलद्वयं वा होमे ग्राह्यम् । संस्कारोऽपि सुनुवयोरिव पत्रयोरपि कार्यम् ॥ Colophon: इति सपर्याकल्पवल्लयां पञ्चमस्तबकः ।।
प्रचण्डमुखमण्डलप्रणयचण्डकोदण्डतो विमुक्तशरमण्डलीहतसुरद्विषन्मण्डलं(ला) । जगत्यखिलमन्द(वन्दि)ता समभिपूरिताखण्डला विनम्रसुरमण्डला भवतु भूतये चण्डिका ॥ श्रीश्रीनिवासेन विनिर्मितायां श्रीमत्सपर्याक्रमकल्पवल्लयाम् । गतः किलायं स्तबकस्तु पञ्चमस्सगूढपाद्यु(दु)त्कटसौरभादयः ॥ चैत्रे मास्यसिते पक्षे नवम्यां स्थिरवासरे । शुक्लाब्दे पूर्वफल्गुन्यां लिखिता चण्डिकास्तुतिः ।। अमृतेशानकविना पञ्चस्तबकसंमिता ॥
For Private and Personal Use Only