SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 4427 एवं परम्पराप्राप्तमहामन्त्रार्थशासने। लाध्यते मातृकाचक्रविवेको नाम सङ्ग्रहः ॥ ग्रन्थोऽयमुपदेशैकबोधसिद्धजनप्रियः । वृत्त्या विविच्यते लळ्या शिवानन्दात्मना मया ॥ आदिसिद्धोपदेशोऽयमनिर्वाह्यः परोक्तिभिः । ततः संवादसन्नाहै हतो ग्रन्भविस्तरः ।। इह खलु परमशिवभट्टारकस्य प्राणभूतया विद्याविद्योभयचमत्कारमय्या स्वरसवाहिन्या विमर्शशक्त्या समुन्मीलितासु बाह्याभ्यन्तरविविधमन्त्रसिद्धान्तविप्रतिपत्तिषु विलुठतो लोकस्यानुग्रहाय शिवप्रयुक्तस्वतन्त्रानन्दनामा महासिद्धः स्वरसिद्धतया निखिलवाङ्मयनिदानतया च महाप्रमाणस्य मातृकामहामन्त्रस्यार्थोपदेशेन निखिलसंशयनिरासनिराकुलं परमार्थस्वरूपं निरूपयितुकाम आदौ महामन्त्रार्थरूपिणी भगवतो महादेवस्य महाशक्तिं ग्रन्थस्य पारम्पर्यप्रवृत्तिरूपाभीष्टसिद्धये परामृशति-जाग्रदत्यादि । सुप्तिनिवृत्तौ घटपटादीनां चिद्भेदेनानुसन्धानदशा जाग्रत् । End: तदपेक्षया चतुरश्रषोडशदळाष्टदळानां जाग्रत्सुषुप्तिस्वप्नचक्रोपलक्ष. काणां बहिस्सन्निवेशकल्पना अनुसरणीयाः। ये तु पुनरत्राव्युत्पन्नाः तदपेक्षया जाग्रच्चक्रस्य प्राधान्यात् बहिश्चतुरश्रादिचक्रस्य तत् त्रयसन्निवेशेन व्युत्पा.. दितम् । तदीया कल्पना व्युत्पादनमात्रपरा सन्निवेशकल्पनाविवेकेन व्युत्पत्तिमता च साधकजनेन चतुर्दशारपर्यन्त एव श्रीचक्रे सुषुप्त्यादिचक्रत्रयस्य प्रत्येकं गन्तव्यमिति शिवम् ।। Colophon: इति मातृकाचक्रव्याख्यानं सम्पूर्णम् ॥ For Private and Personal Use Only
SR No.020197
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 12
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1912
Total Pages457
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy