SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 3986 A DESCRIPTİVB CATALOGUE O देहे निर्ममता गुरौ विनयिता नित्यं श्रुताभ्यासिता चारित्रोज्ज्वलता महीपसमता संसारनिर्वेगता । अन्तर्बाह्यपरिग्रहत्यजनता धर्मज्ञता साधुता साधो साधुजनस्य लक्षणमिदं संसारविच्छेदनम् ॥ किं वस्त्रत्यजनेन भो मुनिरसावतावता जायते क्षोदेन च्युतपन्नगो गतविषः किं जातवान् भूतले । मूलं किं तपसः क्षमेन्द्रियजयः सत्यं सदाचारता रागादींश्च बिभर्ति चेन्न स यतिर्लिङ्गी भवेत्केवलम् ।। End: वेतालाकृतिमर्धदग्धमृतकं दृष्ट्वा भवत्थण्ट(यात्कम्प)ते यासां नास्ति भयं त्वया समा(म)महो जल्पन्ति चेप्रत्युत । राक्षस्यो भुवि नो भवन्ति वनिता मामागता भक्षितुं मत्वैवं प्रपलायतां मृतिभयात्त्वं तत्र मा स्थाः क्षणम् ॥ लब्धार्थो यदि दानधर्मविषये दातुं न यैः शक्यते दारिद्रो(द्रयो)पहतास्तथापि विषयाष(स)क्तिं न मुञ्चन्ति ये । धृत्वा ये चरणं जिनेन्द्रगदितं तस्मिन् समन्दोद्यमास्तेषां जन्म निरर्थकं गतमजाकण्ठस्तनाकारवत् ॥ . वृत्तैर्विशतिभिश्चतुर्भिरधिकैरसल्लक्षणेनोस्थितैः अन्थं सज्जनचित्तवल्लभमिमं श्रीमल्लिषेणोदितम् । कृत्वात्मेन्द्रियकुलरान् समदतो रुन्धन्तु ते दुर्जयान् विद्वांसो विषयाटवीषु सततं संसारविच्छित्तये ॥ Colophon: सज्जनचित्तवल्लभस्समाप्तः ॥ For Private and Personal Use Only
SR No.020196
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 11
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages430
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy