________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
THE SANSKRIT MANUSCRIPTS.
Acharya Shri Kailassagarsuri Gyanmandir
3977
Beginning:
श्रीवर्धमानमकलङ्कमनन्तवीर्ये माणिक्यनन्दियतिभाषितशास्त्रवृत्तिम् । भक्त्या प्रभेन्दुरचिता लघुवृत्तिदृष्ट्या नत्वा यथादि (धि) विवृणोमि लघुप्रपञ्चम् ॥ मदज्ञानमरुन्नीतं मलमत्र यदि स्थितम् । तन्निष्कास्योर्मिवत्सन्तः प्रवर्तन्तामिहाब्धिवत् ॥
इह हि खलु सकलकलङ्कविकल केवलावलोकनविमललोचनलोकितलोकालोकपरमगुरुवीरजिनेश्वररुचिरमुखसरसीरुहसमुत्पन्नसरस्वतीसरसानवर
For Private and Personal Use Only
तस्मरणावलोकन सल्लापदत्तचित्तष्टत्तिः सकलराजाधिराजपरमेश्वरस्य हिमशीतलस्य महाराजस्य महास्थानमध्ये निष्ठुरकष्टवादसौष्ठव दुष्टसौगतान् चटुलघटवादादिपटिष्ठतया तारादेवताधिष्ठित दुर्घटघटवादविजयेन विघटम्य तेन राज्ञा सभ्यैस्सभासदैश्च परिप्राप्तजयप्रशस्तिः सकलतार्किक चूडामणिमरीचिमेचकितरुचिररुचिचकचकायमानचरणनखरो भगवान् भट्टकलङ्कदेवो विश्वविद्वन्मण्डलहृदयो हृदि युक्तिशास्त्रीणजगत्सद्धर्मप्रभावमबूबुधत्तमाम् । तदनु बालानुजिघृक्षुरक्षयगुणोऽक्षू (क्षी) णमोक्षलक्ष्मीकटाक्षविक्षेपनिदानपरीक्षादक्षो गुणमणिवृन्देन भव्यवृन्दमानन्दयन्माणिक्यनन्दिमुनिवृन्दारकस्तत्प्रकाशितशास्त्रमहोदधेरुद्धृत्य तदवगाहनाय पोतोपमं परीक्षामुखनामधेयमन्वर्थमुद्दहत् प्रकरणमारचयन् मुदा तदनु तत्प्रकरणस्य - ष्टतमोऽतिस्पष्टमृष्टेष्टगीः प्रभाचन्द्रभट्टारकः प्रमेयकमलमार्तण्डनामबृहद्वृत्तिं चरीकरा(री)ति(स्म)। तद्वृत्तिग्रन्थस्य मार्तण्डमण्डलायितत्वेन सकलविद्वद्धितजगत्प्रकाशकत्वेऽपि बालान्तःकरणगुहाभ्यन र प्रकाशनसामर्थ्याभावमाक लय्य तत्प्रकाशनाय दीपिकाथितां सकललोकालङ्कारयोग्यत्वतो रत्नायितप्रमेयैरारचितत्वेन प्रमेयरत्नमालेत्यन्वर्थनामोद्वहन्तीं स्वावलोकनप्रवृत्तिमतां पुंसां कोडीकृतघटपटादिवस्तुप्रतिबिम्बितरत्नकण्ठिकायितत्वेन वा स्वाभि धेयानि प्रमेयानि प्रकाशयन्तीं लध्वीं वृत्तिं लध्वनन्तवीर्याचार्यवर्यो भव्यानुग्रहकार्यसौकर्यसूक्तिसौकुमार्यो
गुणगाम्भीर्यशालिवैजेयप्रियसूनुना