________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
THE SANSKRIT MANUSCRIPTS.
3973
Beginning:
श्रीवर्धमानमानम्य विष्णु विश्वसृजं हरम् ।
परीक्षामुखसूत्रस्याद्यस्यार्थ विवृणोम्यहम् || अथ सापूर्वार्थव्यवसायात्मकं ज्ञानं प्रमाणम् इति प्रमाणलक्षणं बाधातीतं नान्याक्तिशतबाधितत्वात् । ननु सापूर्वार्थेति लक्षणे यानि विशेषणान्युपात्तानि तानि निरर्थकानीति चेन्न; परप्रतिपादितानेकदूषणनिवारकत्वेन तेषां सार्थकत्वात् । तथाहि-किं तद्दषणमनिष्टरूपम् ! तदनिष्ठाज्ञानं प्रमाणमित्युक्ते निर्विकल्पकज्ञानस्यापि प्रामाण्यं स्यादित्या. पादनमेवानिष्टमस्माकं जैनानाम् । ततस्तन्निवारकत्वेन व्यवसायविशेषणस्य सार्थकत्वम् । एवमितरेषां विशेषणानां सार्थकत्वं योजनीयम् ॥
इति शान्तिवर्णविरचितायां प्रमेयकाण्ठकायां प्रथमस्तबकः ॥ End:
इति शान्तिवर्णविरचितायां प्रमेयकण्ठिकायां तुरीयस्तबकः ॥
अनेकान्तात्मकं वस्तु सर्व साक्षात्कुर्वन्नेव सर्वज्ञो नेश्वरः । तत्र प्रमाणाभावात् ।
तथा च नेश्वरः कर्ता शरीर(रि)त्वात् मुक्तात्मवदितिचेन्न ; सिद्ध्यसिद्धिभ्यां व्याघातात् । अथ परेष्ट्यां सिद्धो भगवान् न विद्यत इति चेत्तर्हि परेष्टिः किं प्रमाणमप्रमाणं वा ! यदि प्रमाणं तर्हि तया बाध्य. मानत्वात् अनुत्थानं विपरीतानुमानस्य ; अथाप्रमाणं प्रमाणं विना प्रमेयासिद्धः किमनुमानोपन्यासेन ? अथ प्रमाणं परेष्टिः, तेन विषयी. कृतस्य महेश्वरस्य निषेधस्संभवति शुक्तिरूप्यनिषेधो यथा । किञ्च ईश्वरः प्रयोजनं विना कथं प्रवर्तते? सुखस्याभावात् , धर्माभावेन निर्दुःखत्वात् । करुणया प्रवर्तत इति चेत् तर्हि परसुखदुःखप्रहाणे प्रयोजने । तथा च
For Private and Personal Use Only