________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
THE SANSKRIT MANUSORIPTS.
3961
इत्युपासकसंस्कारः कृतः श्रीपद्मनन्दिना।
येषामेतदनुष्ठानं तेषां धर्मोऽतिनिर्मलः ।। Colophon:
इत्युपासकसंस्कारस्समाप्तः ॥
No. 5183. कर्मप्रकृतिः.
KARM APRAKRTIH. Pages, 15. Lines, 7 on a page.
Begins on fol. 26a of the MS. deseribed under No. 5157. Complete.
On the doctrine of Karma aseording to Jaina-philosophy : by Abhayacand rasiddāntaoakravartin. Beginning:
प्रक्षीणावरणाद्वैतमोहप्रत्यूहकर्मणे ।
अनन्तानन्तधीदृष्टसुखवीर्यात्मने नमः ॥ आत्मनः प्रदेशेषु बद्धं कर्म-द्रव्यकर्म, भावकर्म, नोकर्म चेति त्रिविधम् । तत्र प्रकृतिस्थित्यनुभागप्रदेशभेदेन द्रव्यकर्म चतुर्विधम् । तत्र ज्ञानप्रच्छादनादिस्वभावः प्रकृतिः ---मूलप्रकृतिरुत्तरप्रकृतिरुत्तरोत्तर.
कतिरिति त्रिधा । तत्र ज्ञानावरणीयं, दर्शनावरणीयं, वेदनीयं, मोहनीयम् , आयुष्यं, नाम, गोत्रम् , अन्तरायश्चेति मूलप्रकृतिरष्टधा । तत्रात्मनो ज्ञानं विशेषग्रहणमावृणोतीति ज्ञानावरणीयं श्लक्ष्णकाण्डपटवत् । दर्शनं सामान्यग्रणमारणोतीति दर्शनावरणीयं प्रतिहारवत् । सुखं दुःखं वा इन्द्रियद्वारा वेदयतीति वेदनीयं मधुलिप्तखड़धारावत् । आत्मानं मोहयतीति मोहनीयं मद्यवत् । शरीरे आत्मानमेति धारयतीत्यायुष्यं शृङ्खलावत् । नानायोनिषु नारकादिपर्यायैरात्मानं नामयतीति नाम चित्रकारवत् । उच्चनीचकुलकेनात्मानेन गीयत इति गोत्रं कुम्भकारवत् । दानादिविघ्नं कर्तुमन्तरं दातृपात्रादीनां मद्यमि(ध्यमेती)ति अन्तरायः भाण्डागारवत् ।
For Private and Personal Use Only