SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 4326 A DESCRIPTIVE CATALOGUE OF पठिताति शिवज्ञानबोधसिद्धान्तसूत्राणि तदर्थीश्च तुभ्यमुपदिशामि । त्वमपि पक्कात्मनां त्वस्यार्थमुपदिशेत्युपदिष्टवान् । अथेदानी निगमागमपारावारपारीणवैदिकशैवसिद्धान्तस्थापनाचार्यवर्यवामदेवर्षिसंप्रदायप्रवर्तक - मंणिकर्णिकामठनिवासप्रसिद्धनैष्ठिकवर्यविश्वेश्वरशिवाचार्यप्रधानशिष्यशैवस - न्यासनिष्ठानिष्णातसदाशिवशिवाचार्ययोगी तानि सिद्धान्तसूत्राणि व्याकरोति : तस्मिन् शिवज्ञानबोधशास्त्रे प्रथमद्वितीयसूत्राभ्यां कर्तुः प्रमाणल. क्षणे संहारकृत्यञ्च पञ्चमसूत्रेण पशोरन्तर्यामित्वेन पशुपतेः पालकत्व. विधानञ्च । षष्ठसप्तमसूत्राभ्यां सदसन्निरूपणञ्च अष्टमनवमसूत्राभ्यां शिवानुग्रहपूर्व श्रवणमनननिदिध्यासनसाक्षात्कारफलितमोक्षक्रमश्च । दशमसूत्रेण प्रपत्त्या पाशवासनाक्षयं चागामिककर्मानवाप्तिश्च । एकादशद्वादशसूत्राभ्यामन्तरङ्गबाह्यभक्तिप्रतिपादकयोगक्रियाचर्याक्रमश्च समाहृत्य त्रिपदार्थाश्चतुष्पादाः प्रतिपादिताः । अस्य शास्त्रस्य पतिपशुपाशविवेको विषयः । पाशपरित्यागेनाखण्डाकारसच्चिदानन्दाद्वयपरिपूर्णशिवसायुज्यरूपमुक्तिः प्र. योजनम् । शक्तिपातवन्तोऽधिकारिणः । आत्मनां शिवज्ञानेन शिवानन्यानुभवबोधस्संबन्धः । End: यथासंभवपूजाभिः कर्मणा मनसा गिरा । शिवभक्तिस्सदा कार्या तद्वच शिवयोगिषु ॥ इति । एवं विद्याच्छिवज्ञानबोवे शैवार्थनिर्णयम् । इति । इत्थं शिवज्ञानबोधे द्वादशाभिधसूतैः प्रतिपादितं मुमुक्षुर्जानीयादित्यर्थः ॥ Colophon: इति निगमागमपारावारादिविशेषणयुक्तसदाशिवाचार्यविराचेतायां सि - द्धान्तसूत्रवृत्तौ शिवयोगक्रियाचर्याप्रतिपादनं नाम सप्तमः पटलः ॥ इति शिवज्ञानबोधस्समाप्तः ॥ For Private and Personal Use Only
SR No.020196
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 11
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages430
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy