________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
4230
A DESCRIPTIVE CATALOGUE OF
Beginning:
कैलासे शिखरे रम्ये नानारत्नविचित्रिते । सिद्धगन्धर्वसङ्गीते विचित्रकुसुमोज्वले ॥
देवं त्रिलोचनं नत्वा प्राञ्जलिः कौशिको मुनिः । प्रसीद देवदेवेश प्रसीद वृषभध्वज ॥
कारणाख्यं महातन्त्रं शतकोटिप्रविस्तरम् । ब्रह्मणे यत् पुरा प्रोक्तं त्वया सर्वविशारद ।। तस्मिन् तन्त्रे समाख्यातं कौमारं तन्त्रमीश्वरम् ।
मन्त्रोद्धारविधि पूर्वं शौचाचमनकं तथा । स्नानानुष्ठानमार्गश्च सुब्रह्मण्यार्चनाविधिम् ॥ नैवेद्यञ्चामिकार्यश्च नित्योत्सवविधि तथा ।
कुण्डानां लक्षणश्चैव मण्डलस्य च लक्षणम् ।। End:
सर्वतोद्यसमायुक्तं पूर्व वा चोत्तरेऽपि वा। वर्तिद्रव्यं परित्यक्ता पुनः पात्राणि सङ्घहेत् ।। सारं रक्षेत्तदा देव दीनं प्रति दिशं प्रति ।
एवं यः कुरुते मो राजा विजयमाप्नुयात् ।। Colophon: इति कुमारतन्त्रे कौशिकप्रश्ने महासहितायां सायंरक्षाविधिपटलः ।।
कल्हारसरसीं दृष्ट्वा कार्तिकेयं नयन्ति ये । तेषां पापानि नश्यन्ति क्षिप्रमेव न संशयः ।।
कुमारतन्त्रं सम्पूर्णम् ॥
For Private and Personal Use Only