SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 4208 A DESCRIPTIVE CATALOGUE OF यच्चित्ताब्जमभूदनन्तशयनं यश्चाविमुक्तः श्रिया सोऽयं श्रीबसवक्षितीश्वरमणिर्जागर्ति विद्वन्मुदे ।। तेन श्रीरामपादाब्जभक्तिनिर्मलचेतसा । सदा विबुधसेवात्तगूढशास्त्रार्थबुद्धिना ॥ इतिहासपुराणेषु समस्तमुनिसम्मताः । वाचः सङ्गृह्य लिख्यन्ते सारा हरिकथाश्रयाः ।। अस्मिन्नच्छतमे नित्यं हरिमाहात्म्यदर्पणे । आत्मस्वभावमखिलं सदा पश्यन्तु सूरयः ॥ यद्यपि श्रुतयस्सन्ति हरिमाहात्म्यबोधने । शक्तास्तथापि सर्वासा तासां द्रष्टुमशक्तितः ।। असर्वाधिकृतत्वेन दुर्विज्ञानस्वभावतः । इतिहासपुराणादिसापेक्षत्वाच्च निर्णये ॥ इतिहासपुराणेषु विशेषणादरो मम । तत्र रामायणे तावत् ये श्लोका विष्णुतत्पराः ।। प्रथमं तत्र लिख्यन्ते ततो भारतसंश्रयाः । ततश्च वैष्णवाद्येषु पुराणेष्वखिलेष्वपि । ततः पञ्चदशे सर्गे बालकाण्डे विलिख्यते । ततः प्राक्रामदिष्टिं तां पुत्रीयां पुत्रकारणात् ॥ जुहावामौ च तेजस्वी मन्त्रदृष्टेन कर्मणा । ततो देवास्सगन्धर्वाः सिद्धाश्च परमर्षयः ।। भागप्रतिग्रहार्थ वै समवेता यथाविधि । तास्समेत्य यथान्यायं तस्मिन् सदसि देवताः ॥ अब्रुवन् लोककर्तारं ब्रह्माणं वचनं महत् । For Private and Personal Use Only
SR No.020196
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 11
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages430
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy